Mantra with Swara
देव॑ सं॒स्फान॑ सहस्रापो॒षस्ये॑शिषे। तस्य॑ नो रास्व॒ तस्य॑ नो धेहि॒ तस्य॑ ते भक्ति॒वांसः॑ स्याम ॥
देव॑ । स॒म्ऽस्फा॒न॒ । स॒ह॒स्र॒ऽपो॒षस्य॑ । ई॒शि॒षे॒ । तस्य॑ । न॒: । रा॒स्व॒ । तस्य॑ । न: । धे॒हि॒ । तस्य॑ । ते॒ । भ॒क्ति॒ऽवांस॑: । स्या॒म॒ ॥७९.३॥
Mantra without Swara
देव संस्फान सहस्रापोषस्येशिषे। तस्य नो रास्व तस्य नो धेहि तस्य ते भक्तिवांसः स्याम ॥
देव । सम्ऽस्फान । सहस्रऽपोषस्य । ईशिषे । तस्य । न: । रास्व । तस्य । न: । धेहि । तस्य । ते । भक्तिऽवांस: । स्याम ॥७९.३॥
