Mantra with Swara
सं वः॑ पृच्यन्तां त॒न्वः सं मनां॑सि॒ समु॑ व्र॒ता। सं वो॒ऽयं ब्रह्म॑ण॒स्पति॒र्भगः॒ सं वो॑ अजीगमत् ॥
सम् । व॒: । पृ॒च्य॒न्ता॒म् । त॒न्व᳡: । सम् । मनां॑सि । सम् । ऊं॒ इति॑ । व्र॒ता । सम् । व॒: । अ॒यम् । ब्रह्म॑ण: । पति॑: । भग॑: । सम् । व॒: । अ॒जी॒ग॒म॒त् ॥७४.१॥
Mantra without Swara
सं वः पृच्यन्तां तन्वः सं मनांसि समु व्रता। सं वोऽयं ब्रह्मणस्पतिर्भगः सं वो अजीगमत् ॥
सम् । व: । पृच्यन्ताम् । तन्व: । सम् । मनांसि । सम् । ऊं इति । व्रता । सम् । व: । अयम् । ब्रह्मण: । पति: । भग: । सम् । व: । अजीगमत् ॥७४.१॥
