Mantra with Swara
निर्ह॑स्ताः सन्तु॒ शत्र॒वोऽङ्गै॑षां म्लापयामसि। अथै॑षामिन्द्र॒ वेदां॑सि शत॒शो वि भ॑जामहै ॥
नि:ऽह॑स्ता: । स॒न्तु॒ । शत्र॑व: । अङ्गा॑ । ए॒षा॒म् । म्ला॒प॒या॒म॒सि॒ । अथ॑ । ए॒षा॒म् । इ॒न्द्र॒ । वेदां॑सि । श॒त॒ऽश: । वि । भ॒जा॒म॒है॒ ॥६६.३॥
Mantra without Swara
निर्हस्ताः सन्तु शत्रवोऽङ्गैषां म्लापयामसि। अथैषामिन्द्र वेदांसि शतशो वि भजामहै ॥
नि:ऽहस्ता: । सन्तु । शत्रव: । अङ्गा । एषाम् । म्लापयामसि । अथ । एषाम् । इन्द्र । वेदांसि । शतऽश: । वि । भजामहै ॥६६.३॥
