Mantra with Swara
निर्ह॑स्तः॒ शत्रु॑रभि॒दास॑न्नस्तु॒ ये सेना॑भि॒र्युध॑मा॒यन्त्य॒स्मान्। सम॑र्पयेन्द्र मह॒ता व॒धेन॒ द्रात्वे॑षामघहा॒रो विवि॑द्धः ॥
नि:ऽह॑स्त: । शत्रु॑: । अ॒भि॒ऽदास॑न् । अ॒स्तु॒ । ये । सेना॑भि: । युध॑म् । आ॒ऽयन्ति॑ । अ॒स्मान् । सम् । अ॒र्प॒य॒ । इ॒न्द्र॒ । म॒ह॒ता । व॒धेन॑ । द्रातु॑ । ए॒षा॒म् । अ॒घ॒ऽहा॒र: । विऽवि॑ध्द: ॥६६.१॥
Mantra without Swara
निर्हस्तः शत्रुरभिदासन्नस्तु ये सेनाभिर्युधमायन्त्यस्मान्। समर्पयेन्द्र महता वधेन द्रात्वेषामघहारो विविद्धः ॥
नि:ऽहस्त: । शत्रु: । अभिऽदासन् । अस्तु । ये । सेनाभि: । युधम् । आऽयन्ति । अस्मान् । सम् । अर्पय । इन्द्र । महता । वधेन । द्रातु । एषाम् । अघऽहार: । विऽविध्द: ॥६६.१॥
