Mantra with Swara
स॑मा॒नी व॒ आकू॑तिः समा॒ना हृद॑यानि वः। स॑मा॒नम॑स्तु वो॒ मनो॒ यथा॑ वः॒ सुस॒हास॑ति ॥
स॒मा॒नी । व॒: । आऽकू॑ति: । स॒मा॒ना । हृद॑यानि । व॒: । स॒मा॒नम् । अ॒स्तु॒ । व: । मन॑: । यथा॑ । व॒: । सुऽस॑ह । अस॑ति॥६४.३॥
Mantra without Swara
समानी व आकूतिः समाना हृदयानि वः। समानमस्तु वो मनो यथा वः सुसहासति ॥
समानी । व: । आऽकूति: । समाना । हृदयानि । व: । समानम् । अस्तु । व: । मन: । यथा । व: । सुऽसह । असति॥६४.३॥
