Mantra with Swara
सं जा॑नीध्वं॒ सं पृ॑च्यध्वं॒ सं वो॒ मनां॑सि जानताम्। दे॒वा भा॒गं यथा॒ पूर्वे॑ संजाना॒ना उ॒पास॑ते ॥
सम् । जा॒नी॒ध्व॒म् । सम् । पृ॒च्य॒ध्व॒म् । सम् । व॒: । मनां॑सि । जा॒न॒ता॒म् । दे॒वा: । भा॒गम् । यथा॑ । पूर्वे॑ । स॒म्ऽजा॒ना॒ना: । उ॒प॒ऽआस॑ते ॥६४.१॥
Mantra without Swara
सं जानीध्वं सं पृच्यध्वं सं वो मनांसि जानताम्। देवा भागं यथा पूर्वे संजानाना उपासते ॥
सम् । जानीध्वम् । सम् । पृच्यध्वम् । सम् । व: । मनांसि । जानताम् । देवा: । भागम् । यथा । पूर्वे । सम्ऽजानाना: । उपऽआसते ॥६४.१॥
