Mantra with Swara
वि॒श्वरू॑पां सु॒भगा॑म॒च्छाव॑दामि जीव॒लाम्। सा नो॑ रु॒द्रस्या॒स्तां हे॒तिं दू॒रं न॑यतु॒ गोभ्यः॑ ॥
वि॒श्वऽरू॑पाम् । सु॒ऽभगा॑म् । अ॒च्छ॒ऽआव॑दामि । जी॒व॒लाम् । सा । न॑: । रु॒द्रस्य॑ । अ॒स्ताम् । हे॒तिम् । दू॒रम् । न॒य॒तु॒ । गोभ्य॑: ॥५९.३॥
Mantra without Swara
विश्वरूपां सुभगामच्छावदामि जीवलाम्। सा नो रुद्रस्यास्तां हेतिं दूरं नयतु गोभ्यः ॥
विश्वऽरूपाम् । सुऽभगाम् । अच्छऽआवदामि । जीवलाम् । सा । न: । रुद्रस्य । अस्ताम् । हेतिम् । दूरम् । नयतु । गोभ्य: ॥५९.३॥
