Mantra with Swara
यथेन्द्रो॒ द्यावा॑पृथि॒व्योर्यश॑स्वा॒न्यथाप॒ ओष॑धीषु॒ यश॑स्वतीः। ए॒वा विश्वे॑षु दे॒वेषु॑ व॒यं सर्वे॑षु य॒शसः॑ स्याम ॥
यथा॑ । इन्द्र॑: । द्यावा॑पृथि॒व्यो: । यश॑स्वान् । यथा॑ । आप॑: । ओष॑धीषु । यश॑स्वती: । ए॒व । विश्वे॑षु । दे॒वेषु॑ । व॒यम् । सर्वे॑षु । य॒शस॑: । या॒म॒ ॥५८.२॥
Mantra without Swara
यथेन्द्रो द्यावापृथिव्योर्यशस्वान्यथाप ओषधीषु यशस्वतीः। एवा विश्वेषु देवेषु वयं सर्वेषु यशसः स्याम ॥
यथा । इन्द्र: । द्यावापृथिव्यो: । यशस्वान् । यथा । आप: । ओषधीषु । यशस्वती: । एव । विश्वेषु । देवेषु । वयम् । सर्वेषु । यशस: । याम ॥५८.२॥
