Mantra with Swara
मा नो॑ देवा॒ अहि॑र्वधी॒त्सतो॑कान्त्स॒हपू॑रुषान्। संय॑तं॒ न वि ष्प॑र॒द्व्यात्तं॒ न सं य॑म॒न्नमो॑ देवज॒नेभ्यः॑।
मा । न॒: । दे॒वा॒: । अहि॑: । व॒धी॒त् । सऽतो॑कान् । स॒हऽपु॑रुषान् । सम्ऽय॑तम् । न । वि । स्प॒र॒त् । वि॒ऽआत्त॑म् । न । सम् । य॒त॒म् । नम॑: । दे॒व॒ऽज॒नेभ्य॑: ॥५६.१॥
Mantra without Swara
मा नो देवा अहिर्वधीत्सतोकान्त्सहपूरुषान्। संयतं न वि ष्परद्व्यात्तं न सं यमन्नमो देवजनेभ्यः।
मा । न: । देवा: । अहि: । वधीत् । सऽतोकान् । सहऽपुरुषान् । सम्ऽयतम् । न । वि । स्परत् । विऽआत्तम् । न । सम् । यतम् । नम: । देवऽजनेभ्य: ॥५६.१॥
