Mantra with Swara
इ॒दं तद्यु॒ज उत्त॑र॒मिन्द्रं॑ शुम्भा॒म्यष्ट॑ये। अ॒स्य क्ष॒त्रं श्रियं॑ म॒हीं वृ॒ष्टिरि॑व वर्धया॒ तृण॑म् ॥
इ॒दम् । तत् । यु॒जे । उत्ऽत॑रम् । इन्द्र॑म् । शु॒म्भा॒मि॒ । अष्ट॑ये । अ॒स्य । क्ष॒त्रम् । श्रिय॑म् । म॒हीम् । वृ॒ष्टि:ऽइ॑व । व॒र्ध॒य॒ । तृण॑म् ॥५४.१॥
Mantra without Swara
इदं तद्युज उत्तरमिन्द्रं शुम्भाम्यष्टये। अस्य क्षत्रं श्रियं महीं वृष्टिरिव वर्धया तृणम् ॥
इदम् । तत् । युजे । उत्ऽतरम् । इन्द्रम् । शुम्भामि । अष्टये । अस्य । क्षत्रम् । श्रियम् । महीम् । वृष्टि:ऽइव । वर्धय । तृणम् ॥५४.१॥
