Mantra with Swara
उदे॑नमुत्त॒रं न॒याग्ने॑ घृ॒तेना॑हुत। समे॑नं॒ वर्च॑सा सृज प्र॒जया॑ च ब॒हुं कृ॑धि ॥
उत् । ए॒न॒म् । उ॒त्ऽत॒रम् । न॒य॒ । अग्ने॑ । घृ॒तेन॑ । आ॒ऽहु॒त॒ । सम् । ए॒न॒म् । वर्च॑सा । सृ॒ज॒ । प्र॒ऽजया॑ । च॒ । ब॒हुम् । कृ॒धि॒ ॥५.१॥
Mantra without Swara
उदेनमुत्तरं नयाग्ने घृतेनाहुत। समेनं वर्चसा सृज प्रजया च बहुं कृधि ॥
उत् । एनम् । उत्ऽतरम् । नय । अग्ने । घृतेन । आऽहुत । सम् । एनम् । वर्चसा । सृज । प्रऽजया । च । बहुम् । कृधि ॥५.१॥
