Mantra with Swara
अ॑व॒शसा॑ निः॒शसा॒ यत्प॑रा॒शसो॑पारि॒म जाग्र॑तो॒ यत्स्व॒पन्तः॑। अ॒ग्निर्विश्वा॒न्यप॑ दुष्कृ॒तान्यजु॑ष्टान्या॒रे अ॒स्मद्द॑धातु ॥
अ॒व॒ऽशसा॑ । नि॒:ऽशसा॑ । यत् । प॒रा॒ऽशसा॑। उ॒प॒ऽआ॒रि॒म । जाग्र॑त: । यत् । स्व॒पन्त॑:। अ॒ग्नि: । विश्वा॑नि । अप॑ । दु॒:ऽकृ॒तानि॑ । अजु॑ष्टानि । आ॒रे । अ॒स्मत् । द॒धा॒तु॒ ॥४५.२॥
Mantra without Swara
अवशसा निःशसा यत्पराशसोपारिम जाग्रतो यत्स्वपन्तः। अग्निर्विश्वान्यप दुष्कृतान्यजुष्टान्यारे अस्मद्दधातु ॥
अवऽशसा । नि:ऽशसा । यत् । पराऽशसा। उपऽआरिम । जाग्रत: । यत् । स्वपन्त:। अग्नि: । विश्वानि । अप । दु:ऽकृतानि । अजुष्टानि । आरे । अस्मत् । दधातु ॥४५.२॥
