Mantra with Swara
अ॒यं यो भूरि॑मूलः समु॒द्रम॑व॒तिष्ठ॑ति। द॒र्भः पृ॑थि॒व्या उत्थि॑तो मन्यु॒शम॑न उच्यते ॥
अ॒यम् । य: । भूरि॑ऽमूल: । स॒मु॒द्रम् । अ॒व॒ऽतिष्ठ॑ति । द॒र्भ: । पृ॒थि॒व्या: । उत्थि॑त: । म॒न्यु॒ऽशम॑न: । उ॒च्य॒ते॒ ॥४३.२॥
Mantra without Swara
अयं यो भूरिमूलः समुद्रमवतिष्ठति। दर्भः पृथिव्या उत्थितो मन्युशमन उच्यते ॥
अयम् । य: । भूरिऽमूल: । समुद्रम् । अवऽतिष्ठति । दर्भ: । पृथिव्या: । उत्थित: । मन्युऽशमन: । उच्यते ॥४३.२॥
