Mantra with Swara
रा॑ज॒न्ये दुन्दु॒भावाय॑ताया॒मश्व॑स्य॒ वाजे॒ पुरु॑षस्य मा॒यौ। इन्द्रं॒ या दे॒वी सु॒भगा॑ ज॒जान॒ सा न॒ ऐतु॒ वर्च॑सा संविदा॒ना ॥
रा॒ज॒न्ये᳡ । दु॒न्दु॒भौ । आऽय॑तायाम् । अश्व॑स्य । वाजे॑ । पुरु॑षस्य । मा॒यौ । इन्द्र॑म् । या । दे॒वी । सु॒ऽभगा॑ । ज॒जान॑ । सा । न॒: । आ । ए॒तु॒ । वर्च॑सा । स॒म्ऽवि॒दा॒ना ॥३८.४॥
Mantra without Swara
राजन्ये दुन्दुभावायतायामश्वस्य वाजे पुरुषस्य मायौ। इन्द्रं या देवी सुभगा जजान सा न ऐतु वर्चसा संविदाना ॥
राजन्ये । दुन्दुभौ । आऽयतायाम् । अश्वस्य । वाजे । पुरुषस्य । मायौ । इन्द्रम् । या । देवी । सुऽभगा । जजान । सा । न: । आ । एतु । वर्चसा । सम्ऽविदाना ॥३८.४॥
