Mantra with Swara
वै॑श्वान॒रोऽङ्गि॑रसां॒ स्तोम॑मु॒क्थं च॑ चाक्लृपत्। एषु॑ द्यु॒म्नं स्वर्यमत् ॥
वै॒श्वा॒न॒र: । अङ्गि॑रसाम् । स्तोम॑म् । उ॒क्थम् । च॒ । च॒क्लृ॒प॒त् । आ । ए॒षु॒ । द्यु॒म्नम् । स्व᳡: । य॒म॒त् ॥३५.३॥
Mantra without Swara
वैश्वानरोऽङ्गिरसां स्तोममुक्थं च चाक्लृपत्। एषु द्युम्नं स्वर्यमत् ॥
वैश्वानर: । अङ्गिरसाम् । स्तोमम् । उक्थम् । च । चक्लृपत् । आ । एषु । द्युम्नम् । स्व: । यमत् ॥३५.३॥
