Mantra with Swara
ई॒र्ष्याया॒ ध्राजिं॑ प्रथ॒मां प्र॑थ॒मस्या॑ उ॒ताप॑राम्। अ॒ग्निं हृ॑द॒य्यं शोकं॒ तं ते॒ निर्वा॑पयामसि ॥
ई॒र्ष्याया॑: । ध्राजि॑म् । प्र॒थ॒माम् । प्र॒थ॒मस्या॑: । उ॒त । अप॑राम् । अ॒ग्निम् । हृ॒द॒य्य᳡म् । शोक॑म् । तम् । ते॒ । नि: । वा॒प॒या॒म॒सि॒ ॥१८.१॥
Mantra without Swara
ईर्ष्याया ध्राजिं प्रथमां प्रथमस्या उतापराम्। अग्निं हृदय्यं शोकं तं ते निर्वापयामसि ॥
ईर्ष्याया: । ध्राजिम् । प्रथमाम् । प्रथमस्या: । उत । अपराम् । अग्निम् । हृदय्यम् । शोकम् । तम् । ते । नि: । वापयामसि ॥१८.१॥
