Mantra with Swara
अक्षि॑तास्त उप॒सदोऽक्षि॑ताः सन्तु रा॒शयः॑। पृ॒णन्तो॒ अक्षि॑ताः सन्त्व॒त्तारः॑ स॒न्त्वक्षि॑ताः ॥
अक्षि॑ता: । ते॒ ।उ॒प॒ऽसद॑: । अक्षि॑ता: । स॒न्तु॒ । रा॒शय॑: । पृ॒णन्त॑: । अक्षि॑ता: । स॒न्तु॒ । अ॒त्तार॑: । स॒न्तु॒ । अक्षि॑ता: ॥१४२.३॥
Mantra without Swara
अक्षितास्त उपसदोऽक्षिताः सन्तु राशयः। पृणन्तो अक्षिताः सन्त्वत्तारः सन्त्वक्षिताः ॥
अक्षिता: । ते ।उपऽसद: । अक्षिता: । सन्तु । राशय: । पृणन्त: । अक्षिता: । सन्तु । अत्तार: । सन्तु । अक्षिता: ॥१४२.३॥
