Mantra with Swara
उप॑हूतौ स॒युजौ॑ स्यो॒नौ दन्तौ॑ सुम॒ङ्गलौ॑। अ॒न्यत्र॑ वां घो॒रं त॒न्वः परै॑तु दन्तौ॒ मा हिं॑सिष्टं पि॒तरं॑ मा॒तरं॑ च ॥
उप॑ऽहूतौ । स॒ऽयुजौ॑ । स्यो॒नौ । दन्तौ॑ । सु॒ऽम॒ङ्गलौ॑ । अ॒न्यत्र॑ । वा॒म् । घो॒रम् । त॒न्व᳡: । परा॑ । ए॒तु॒ । द॒न्तौ॒ । मा । हिं॒सि॒ष्ट॒म् । पि॒तर॑म् । मा॒तर॑म् । च॒ ॥१४०.३॥
Mantra without Swara
उपहूतौ सयुजौ स्योनौ दन्तौ सुमङ्गलौ। अन्यत्र वां घोरं तन्वः परैतु दन्तौ मा हिंसिष्टं पितरं मातरं च ॥
उपऽहूतौ । सऽयुजौ । स्योनौ । दन्तौ । सुऽमङ्गलौ । अन्यत्र । वाम् । घोरम् । तन्व: । परा । एतु । दन्तौ । मा । हिंसिष्टम् । पितरम् । मातरम् । च ॥१४०.३॥
