Mantra with Swara
ये ते॑ ना॒ड्यौ दे॒वकृ॑ते॒ ययो॒स्तिष्ठ॑ति॒ वृष्ण्य॑म्। ते ते॑ भिनद्मि॒ शम्य॑या॒मुष्या॒ अधि॑ मु॒ष्कयोः॑ ॥
ये इति॑ । ते॒ । ना॒ड्यौ᳡ । दे॒वकृ॑ते॒ इति॑ दे॒वऽकृ॑ते । ययो॑: । तिष्ठ॑ति । वृष्ण्य॑म् । ते इति॑ । ते॒ । भि॒न॒द्मि॒ । शम्य॑या । अ॒मुष्या॑: । अधि॑ । मु॒ष्कयो॑: ॥१३८.४॥
Mantra without Swara
ये ते नाड्यौ देवकृते ययोस्तिष्ठति वृष्ण्यम्। ते ते भिनद्मि शम्ययामुष्या अधि मुष्कयोः ॥
ये इति । ते । नाड्यौ । देवकृते इति देवऽकृते । ययो: । तिष्ठति । वृष्ण्यम् । ते इति । ते । भिनद्मि । शम्यया । अमुष्या: । अधि । मुष्कयो: ॥१३८.४॥
