Mantra with Swara
प्रामूं ज॑या॒भी॒मे ज॑यन्तु केतु॒मद्दु॑न्दु॒भिर्वा॑वदीतु। समश्व॑पर्णाः पतन्तु नो॒ नरो॒ऽस्माक॑मिन्द्र र॒थिनो॑ जयन्तु ॥
प्र । अ॒मूम् । ज॒य॒ । अ॒भि । इ॒मे । ज॒य॒न्तु॒ । के॒तु॒ऽमत् । दु॒न्दु॒भि: । वा॒व॒दी॒तु॒। सम् । अश्व॑ऽपर्णा: । प॒त॒न्तु॒ । न॒: । नर॑: ।अ॒स्माक॑म् । इ॒न्द्र॒ । र॒थिन॑:। ज॒य॒न्तु॒ ॥१२६.३॥
Mantra without Swara
प्रामूं जयाभीमे जयन्तु केतुमद्दुन्दुभिर्वावदीतु। समश्वपर्णाः पतन्तु नो नरोऽस्माकमिन्द्र रथिनो जयन्तु ॥
प्र । अमूम् । जय । अभि । इमे । जयन्तु । केतुऽमत् । दुन्दुभि: । वावदीतु। सम् । अश्वऽपर्णा: । पतन्तु । न: । नर: ।अस्माकम् । इन्द्र । रथिन:। जयन्तु ॥१२६.३॥
