Mantra with Swara
ए॒तं स॑धस्थाः॒ परि॑ वो ददामि॒ यं शे॑व॒धिमा॒वहा॑ज्जा॒तवे॑दाः। अ॑न्वाग॒न्ता यज॑मानः स्व॒स्ति तं स्म॑ जानीत पर॒मे व्योमन् ॥
ए॒तम् । स॒ध॒ऽस्था॒: । परि॑ । व॒: । द॒दा॒मि॒ । यम् । शे॒व॒ऽधिम् । आ॒ऽवहा॑त् । जा॒तऽवे॑दा: । अ॒नु॒ऽआ॒ग॒न्ता । यज॑मान: । स्व॒स्ति । तम् । स्म॒ । जा॒नी॒त॒ । प॒र॒मे । विऽओ॑मन् ॥१२३.१॥
Mantra without Swara
एतं सधस्थाः परि वो ददामि यं शेवधिमावहाज्जातवेदाः। अन्वागन्ता यजमानः स्वस्ति तं स्म जानीत परमे व्योमन् ॥
एतम् । सधऽस्था: । परि । व: । ददामि । यम् । शेवऽधिम् । आऽवहात् । जातऽवेदा: । अनुऽआगन्ता । यजमान: । स्वस्ति । तम् । स्म । जानीत । परमे । विऽओमन् ॥१२३.१॥
