Mantra with Swara
वै॑वस्व॒तः कृ॑णवद्भाग॒धेयं॒ मधु॑भागो॒ मधु॑ना॒ सं सृ॑जाति। मा॒तुर्यदेन॑ इषि॒तं न॒ आग॒न्यद्वा॑ पि॒ताऽप॑राद्धो जिही॒डे ॥
वै॒व॒स्व॒त: । कृ॒ण॒व॒त् । भा॒ग॒ऽधेय॑म् । मधु॑ऽभाग: । मधु॑ना । सम् । सृ॒जा॒ति॒ । मा॒तु: । यत् । एन॑: । इ॒षि॒तम् । न॒: । आ॒ऽअग॑न् । यत् । वा॒ । पि॒ता । अप॑ऽराध्द: । जि॒ही॒डे ॥११६.२॥
Mantra without Swara
वैवस्वतः कृणवद्भागधेयं मधुभागो मधुना सं सृजाति। मातुर्यदेन इषितं न आगन्यद्वा पिताऽपराद्धो जिहीडे ॥
वैवस्वत: । कृणवत् । भागऽधेयम् । मधुऽभाग: । मधुना । सम् । सृजाति । मातु: । यत् । एन: । इषितम् । न: । आऽअगन् । यत् । वा । पिता । अपऽराध्द: । जिहीडे ॥११६.२॥
