Mantra with Swara
ऋ॒तस्य॒र्तेना॑दित्या॒ यज॑त्रा मु॒ञ्चते॒ह नः॑। य॒ज्ञं यद्य॑ज्ञवाहसः शिक्षन्तो॒ नोप॑शेकि॒म ॥
ऋ॒तस्य॑ । ऋ॒तेन॑ । आ॒दि॒त्या॒: । यज॑त्रा: । मु॒ञ्चत॑ । इ॒ह । न॒: । य॒ज्ञम् । यत् । य॒ज्ञ॒ऽवा॒ह॒स॒: । शिक्ष॑न्त: । न । उ॒प॒ऽशे॒कि॒म ॥११४.२॥
Mantra without Swara
ऋतस्यर्तेनादित्या यजत्रा मुञ्चतेह नः। यज्ञं यद्यज्ञवाहसः शिक्षन्तो नोपशेकिम ॥
ऋतस्य । ऋतेन । आदित्या: । यजत्रा: । मुञ्चत । इह । न: । यज्ञम् । यत् । यज्ञऽवाहस: । शिक्षन्त: । न । उपऽशेकिम ॥११४.२॥
