Mantra with Swara
असु॑रास्त्वा॒ न्यखनन्दे॒वास्त्वोद॑वप॒न्पुनः॑। वा॒तीकृ॑तस्य भेष॒जीमथो॑ क्षि॒प्तस्य॑ भेष॒जीम् ॥
असु॑रा: । त्वा॒ । नि । अ॒ख॒न॒न् । दे॒वा: । त्वा॒ । उत् । अ॒व॒प॒न् । पुन॑: । वा॒तीऽकृ॑तस्य । भे॒ष॒जीम् । अथो॒ इति॑ । क्षि॒प्तस्य॑ । भे॒ष॒जीम् ॥१०९.३॥
Mantra without Swara
असुरास्त्वा न्यखनन्देवास्त्वोदवपन्पुनः। वातीकृतस्य भेषजीमथो क्षिप्तस्य भेषजीम् ॥
असुरा: । त्वा । नि । अखनन् । देवा: । त्वा । उत् । अवपन् । पुन: । वातीऽकृतस्य । भेषजीम् । अथो इति । क्षिप्तस्य । भेषजीम् ॥१०९.३॥
