Mantra with Swara
विश्व॑जित्त्रायमा॒णायै॑ मा॒ परि॑ देहि। त्राय॑माणे द्वि॒पाच्च॒ सर्वं॑ नो॒ रक्ष॒ चतु॑ष्पा॒द्यच्च॑ नः॒ स्वम् ॥
विश्व॑ऽजित् । त्रा॒य॒मा॒णायै॑ । मा॒ । परि॑ । दे॒हि॒ । त्राय॑माणे । द्वि॒ऽपात् । च॒ । सर्व॑म् । न॒: । रक्ष॑ । चतु॑:ऽपात् । यत् । च॒ । न॒: । स्वम् ॥१०७.१॥
Mantra without Swara
विश्वजित्त्रायमाणायै मा परि देहि। त्रायमाणे द्विपाच्च सर्वं नो रक्ष चतुष्पाद्यच्च नः स्वम् ॥
विश्वऽजित् । त्रायमाणायै । मा । परि । देहि । त्रायमाणे । द्विऽपात् । च । सर्वम् । न: । रक्ष । चतु:ऽपात् । यत् । च । न: । स्वम् ॥१०७.१॥
