Mantra with Swara
इ॒दमा॒दान॑मकरं॒ तप॒सेन्द्रे॑ण॒ संशि॑तम्। अ॒मित्रा॒ येऽत्र॑ नः॒ सन्ति॒ तान॑ग्न॒ आ द्या॒ त्वम् ॥
इ॒दम् । आ॒ऽदान॑म् । अ॒क॒र॒म् । तप॑सा । इन्द्रे॑ण । सम्ऽशि॑तम् । अ॒मित्रा॑: । ये । अत्र॑ । न॒: । सन्ति॑ । तान् । अ॒ग्ने॒ । आ । द्य॒ । त्वम् ॥१०४.२॥
Mantra without Swara
इदमादानमकरं तपसेन्द्रेण संशितम्। अमित्रा येऽत्र नः सन्ति तानग्न आ द्या त्वम् ॥
इदम् । आऽदानम् । अकरम् । तपसा । इन्द्रेण । सम्ऽशितम् । अमित्रा: । ये । अत्र । न: । सन्ति । तान् । अग्ने । आ । द्य । त्वम् ॥१०४.२॥
