Mantra with Swara
यद्वो॑ दे॒वा उ॑पजीका॒ आसि॑ञ्च॒न्धन्व॑न्युद॒कम्। तेन॑ दे॒वप्र॑सूतेने॒दं दू॑षयता वि॒षम् ॥
यत् । व॒: । दे॒वा: । उ॒प॒ऽजी॒का॒: । आ॒ऽअसि॑ञ्चन् । धन्व॑नि । उ॒द॒कम् । तेन॑ । दे॒वऽप्र॑सूतेन । इ॒दम् । दू॒ष॒य॒त॒ । वि॒षम् ॥१००.२॥
Mantra without Swara
यद्वो देवा उपजीका आसिञ्चन्धन्वन्युदकम्। तेन देवप्रसूतेनेदं दूषयता विषम् ॥
यत् । व: । देवा: । उपऽजीका: । आऽअसिञ्चन् । धन्वनि । उदकम् । तेन । देवऽप्रसूतेन । इदम् । दूषयत । विषम् ॥१००.२॥
