Mantra 1
वै॑कङ्क॒तेने॒ध्मेन॑ दे॒वेभ्य॒ आज्यं॑ वह। अग्ने॒ ताँ इ॒ह मा॑दय॒ सर्व॒ आ य॑न्तु मे॒ हव॑म् ॥
वै॒क॒ङ्क॒तेन॑ । इ॒ध्मेन॑ । दे॒वेभ्य॑: । आज्य॑म् । व॒ह॒ । अग्ने॑ । तान् । इ॒ह । मा॒द॒य॒ । सर्वे॑ । आ । य॒न्तु॒ । मे॒ । हव॑म् ॥८.१॥
Mantra 2
इ॒न्द्रा या॑हि मे॒ हव॑मि॒दं क॑रिष्यामि॒ तच्छृ॑णु। इ॒म ऐ॒न्द्रा अ॑तिस॒रा आकू॑तिं॒ सं न॑मन्तु मे। तेभिः॑ शकेम वी॒र्यं जात॑वेद॒स्तनू॑वशिन् ॥
इन्द्र॑ । आ । या॒हि॒ । मे॒ । हव॑म् । इ॒दम् । क॒रि॒ष्या॒मि॒ । तत् । शृ॒णु॒ । इ॒मे । ऐ॒न्द्रा: । अ॒ति॒ऽस॒रा: । आऽकू॑तिम् । सम् । न॒म॒न्तु॒ । मे॒ । तेभि॑: । श॒के॒म॒ । वी॒र्य᳡म् । जात॑ऽवेद: । तनू॑ऽवशिन् ॥८.२॥
Mantra 3
यद॒साव॒मुतो॑ देवा अदे॒वः संश्चिकी॑र्षति। मा तस्या॒ग्निर्ह॒व्यं वा॑क्षी॒द्धवं॑ दे॒वा अ॑स्य॒ मोप॒ गुर्ममै॒व हव॒मेत॑न ॥
यत् । अ॒सौ । अ॒मुत॑: । दे॒वा॒: । अ॒दे॒व: । सन् । चिकी॑र्षति । मा । तस्य॑ । अ॒ग्नि: । ह॒व्यम् । वा॒क्षी॒त् । हव॑म् । दे॒वा: । अ॒स्य॒ । मा । उप॑ । गु॒: । मम॑ । ए॒व । हव॑म् । आ । इ॒त॒न॒ ॥८.३॥
Mantra 4
अति॑ धावतातिसरा॒ इन्द्र॑स्य॒ वच॑सा हत। अविं॒ वृक॑ इव मथ्नीत॒ स वो॒ जीव॒न्मा मो॑चि प्रा॒णम॒स्यापि॑ नह्यत ॥
अति॑ । धा॒व॒त॒ । अ॒ति॒ऽस॒रा॒: । इन्द्र॑स्य । वच॑सा । ह॒त॒ । अवि॑म् । वृक॑:ऽइव । म॒थ्नी॒त॒ । स: । व॒: । जीव॑न् । मा । मो॒चि॒। प्रा॒णम् । अ॒स्य । अपि॑ । न॒ह्य॒त॒ ॥८.४॥
Mantra 5
यम॒मी पु॑रोदधि॒रे ब्र॒ह्माण॒मप॑भूतये। इन्द्र॒ स ते॑ अधस्प॒दं तं प्रत्य॑स्यामि मृ॒त्यवे॑ ॥
यम् । अ॒मी इति॑ । पु॒र॒:ऽद॒धि॒रे । ब्र॒ह्माण॑म् । अप॑ऽभूतये ।इन्द्र॑ । स: । ते॒ । अ॒ध॒:ऽप॒दम् । तम् । प्रति॑ । अ॒स्या॒मि॒ । मृ॒त्यवे॑॥।८.५॥
Mantra 6
यदि॑ प्रे॒युर्दे॑वपु॒रा ब्रह्म॒ वर्मा॑णि चक्रि॒रे। त॑नू॒पानं॑ परि॒पाणं॑ कृण्वा॒ना यदु॑पोचि॒रे सर्वं॒ तद॑र॒सं कृ॑धि ॥
यदि॑। प्र॒ऽई॒यु: । दे॒व॒ऽपु॒रा: । ब्रह्म॑ । वर्मा॑णि । च॒क्रि॒रे । त॒नू॒ऽपान॑म् । प॒रि॒ऽपान॑म् । कृ॒ण्वा॒ना: । यत् । उ॒प॒ऽऊ॒चि॒रे । सर्व॑म् । तत् । अ॒र॒सम् । कृ॒धि॒॥८.६॥
Mantra 7
यान॒साव॑तिस॒रांश्च॒कार॑ कृ॒णव॑च्च॒ यान्। त्वं तानि॑न्द्र वृत्रहन्प्र॒तीचः॒ पुन॒रा कृ॑धि॒ यथा॒मुं तृ॒णहा॒ञ्जन॑म् ॥
यान् । अ॒सौ । अ॒ति॒ऽस॒रान् । च॒कार॑ । कृ॒णव॑त् । च॒ । यान् । त्वम् । तान् । इ॒न्द्र॒ । वृ॒त्र॒ऽह॒न् । प्र॒तीच॑: । पुन॑: । आ । कृ॒धि॒ । यथा॑ । अ॒मुम् । तृ॒णहा॑न् । जन॑म् ॥८.७॥
Mantra 8
यथेन्द्र॑ उ॒द्वाच॑नं ल॒ब्ध्वा च॒क्रे अ॑धस्प॒दम्। कृ॒ण्वे॒हमध॑रा॒न्तथा॒मूञ्छ॑श्व॒तीभ्यः॒ समा॑भ्यः ॥
यथा॑ । इन्द्र॑: । उ॒त्ऽवाच॑नम् । ल॒ब्ध्वा । च॒क्रे । अ॒ध॒:ऽप॒दम् । कृ॒ण्वे । अ॒हम् । अध॑रान् । तथा॑ । अ॒मून् । श॒श्व॒तीभ्य॑: । समा॑भ्य: ॥८.८॥
Mantra 9
अत्रै॑नानिन्द्र वृत्रहन्नु॒ग्रो मर्म॑णि विध्य। अत्रै॒वैना॑न॒भि ति॒ष्ठेन्द्र॑ मे॒द्यहं तव॑। अनु॑ त्वे॒न्द्रा र॑भामहे॒ स्याम॑ सुम॒तौ तव॑ ॥
अत्र॑ । ए॒ना॒न् । इ॒न्द्र॒ । वृ॒त्र॒ऽह॒न् । उ॒ग्र: । मर्म॑णि । वि॒ध्य॒ । अत्र॑ । ए॒व । ए॒ना॒न् । अ॒भि । ति॒ष्ठ॒ । इन्द्र॑ । मे॒दी । अ॒हम् । तव॑ । अनु॑ । त्वा॒ । इ॒न्द्र॒ । आ । र॒भा॒म॒हे॒ । स्याम॑ । सु॒ऽम॒तौ । तव॑ ॥८.९॥