Mantra 1
यो गि॒रिष्वजा॑यथा वी॒रुधां॒ बल॑वत्तमः। कुष्ठेहि॑ तक्मनाशन त॒क्मानं॑ ना॒शय॑न्नि॒तः ॥
य: । गि॒रिषु॑ । अजा॑यथा: । वी॒रुधा॑म् । बल॑वत्ऽतम: ।कुष्ठ॑ । आ । इ॒हि॒ । त॒क्म॒ऽना॒श॒न॒ । त॒क्मान॑म् । ना॒शय॑न् । इ॒त: ॥४.१॥
Mantra 2
सु॑पर्ण॒सुव॑ने गि॒रौ जा॒तं हि॒मव॑त॒स्परि॑। धनै॑र॒भि श्रु॒त्वा य॑न्ति वि॒दुर्हि त॑क्म॒नाश॑नम् ॥
सु॒प॒र्ण॒ऽसुव॑ने । गि॒रौ । जा॒तम् । हि॒मऽव॑त: । परि॑ । धनै॑: । अ॒भि । श्रु॒त्वा । य॒न्ति॒ । वि॒दु: । हि । त॒क्म॒ऽनाश॑नम् ॥४.२॥
Mantra 3
अ॑श्व॒त्थो दे॑व॒सद॑नस्तृ॒तीय॑स्यामि॒तो दि॒वि। तत्रा॒मृत॑स्य॒ चक्ष॑णं दे॒वाः कुष्ठ॑मवन्वत ॥
अ॒श्व॒त्थ: । दे॒व॒ऽसद॑न:। तृ॒तीय॑स्याम् । इ॒त: । दि॒वि । तत्र॑ । अ॒मृत॑स्य । चक्ष॑णम् । दे॒वा: । कुष्ठ॑म् । अ॒व॒न्व॒त ॥४.३॥
Mantra 4
हि॑र॒ण्ययी॒ नौर॑चर॒द्धिर॑ण्यबन्धना दि॒वि। तत्रा॒मृत॑स्य॒ पुष्पं॑ दे॒वाः कुष्ठ॑मवन्वत ॥
हि॒र॒ण्ययी॑ । नौ: । अ॒च॒र॒त् । हिर॑ण्यऽबन्धना । दि॒वि । तत्र॑ । अ॒मृत॑स्य । पुष्प॑म् । दे॒वा: । कुष्ठ॑म् । अ॒व॒न्व॒त॒ ॥४.४॥
Mantra 5
हि॑र॒ण्ययाः॒ पन्था॑न आस॒न्नरि॑त्राणि हिर॒ण्यया॑। नावो॑ हिर॒ण्ययी॑रास॒न्याभिः॒ कुष्ठं॑ नि॒राव॑हन् ॥
हि॒र॒ण्यया॑: । पन्था॑न: । आ॒स॒न् । अरि॑त्राणि । हि॒र॒ण्यया॑ । नाव॑: । हि॒र॒ण्ययी॑: । आ॒स॒न् । याभि॑: । कुष्ठ॑म् । नि॒:ऽआव॑हन् ॥४.५॥
Mantra 6
इ॒मं मे॑ कुष्ठ॒ पूरु॑षं॒ तमा व॑ह॒ तं निष्कु॑रु। तमु॑ मे अग॒दं कृ॑धि ॥
इ॒मम् । मे॒ । कु॒ष्ठ॒ । पुरु॑षम् । तम् । आ । व॒ह॒ । तम् । नि: । कु॒रु॒ । तम् । ऊं॒ इति॑ । मे॒ । अ॒ग॒दम् । कृ॒धि॒ ॥४.६॥
Mantra 7
दे॒वेभ्यो॒ अधि॑ जा॒तोऽसि॒ सोम॑स्यासि॒ सखा॑ हि॒तः। स प्रा॒णाय॑ व्या॒नाय॒ चक्षु॑षे मे अ॒स्मै मृ॑ड ॥
दे॒वेभ्य॑: । अधि॑ । जा॒त: । अ॒सि॒ । सोम॑स्य । अ॒सि॒ । सखा॑ । हि॒त: । स: । प्रा॒णाय॑ । वि॒ऽआ॒नाय॑ । चक्षु॑षे । मे॒ । अ॒स्मै । मृ॒ड॒ ॥४.७॥
Mantra 8
उद॑ङ्जा॒तो हि॒मव॑तः॒ स प्रा॒च्यां नी॑यसे॒ जन॑म्। तत्र॒ कुष्ठ॑स्य॒ नामा॑न्युत्त॒मानि॒ वि भे॑जिरे ॥
उद॑ङ् । जा॒त: । हि॒मऽव॑त: । स: । प्रा॒च्याम् । नी॒य॒से॒ । जन॑म् । तत्र॑ । कुष्ठ॑स्य । नामा॑नि । उ॒त्ऽत॒मानि॑ । वि । भे॒जि॒रे॒ ॥४.८॥
Mantra 9
उ॑त्त॒मो नाम॑ कुष्ठास्युत्त॒मो नाम॑ ते पि॒ता। यक्ष्मं॑ च॒ सर्वं॑ ना॒शय॑ त॒क्मानं॑ चार॒सं कृ॑धि ॥
उ॒त्ऽत॒म: । नाम॑ । कु॒ष्ठ॒ । अ॒सि॒ । उ॒त्ऽत॒म: । नाम॑ । ते॒ । पि॒ता । यक्ष्म॑म् । च॒ । सर्व॑म् । ना॒शय॑ । त॒क्मान॑म् । च॒ । अ॒र॒सम् । कृ॒धि॒ ॥४.९॥
Mantra 10
शी॑र्षाम॒यमु॑पह॒त्याम॒क्ष्योस्त॒न्वो॒रपः॑। कुष्ठ॒स्तत्सर्वं॒ निष्क॑र॒द्दैवं॑ समह॒ वृष्ण्य॑म् ॥
शी॒र्ष॒ऽआ॒म॒यम् । उ॒प॒ऽह॒त्याम् । अ॒क्ष्यो: । त॒न्व᳡: । रप॑: । कुष्ठ॑: । तत् । सर्व॑म् । नि: । क॒र॒त् । दैव॑म् । स॒म॒ह॒ । वृष्ण्य॑म् ॥४.१०॥