Mantra 1
यां ते॑ च॒क्रुरा॒मे पात्रे॒ यां च॒क्रुर्मि॒श्रधा॑न्ये। आ॒मे मां॒से कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ॥
याम् । ते॒ । च॒क्रु: । आ॒मे । पात्रे॑ । याम् । च॒क्रु: । मि॒श्रऽधा॑न्ये । आ॒मे । मां॒से । कृ॒त्याम् । याम् । च॒क्रु: । पुन॑: । प्रति॑ । ह॒रा॒मि॒ । ताम् ॥३१.१॥
Mantra 2
यां ते॑ च॒क्रुः कृ॑क॒वाका॑व॒जे वा॒ यां कु॑री॒रिणि॑। अव्यां॑ ते कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ॥
याम् । ते॒ । च॒क्रु: । कृ॒क॒वाकौ॑ । अ॒जे । वा॒ । याम् । कु॒री॒रिणि॑ । अव्या॑म् । ते॒ । कृ॒त्याम् । याम् । च॒क्रु: । पुन॑: । प्रति॑ । ह॒रा॒मि॒ । ताम् ॥३१.२॥
Mantra 3
यां ते॑ च॒क्रुरेक॑शफे पशू॒नामु॑भ॒याद॑ति। ग॑र्द॒भे कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ॥
याम् । ते॒ । च॒क्रु:। एक॑ऽशफे । प॒शू॒नाम् । उ॒भ॒याद॑ति । ग॒र्द॒भे । कृ॒त्याम् । याम् । च॒क्रु: । पुन॑: । प्रति॑ । ह॒रा॒मि॒ । ताम् ॥३१.३॥
Mantra 4
यां ते॑ च॒क्रुर॑मू॒लायां॑ वल॒गं वा॑ नरा॒च्याम्। क्षेत्रे॑ ते कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ॥
याम् । ते॒ । च॒क्रु: । अ॒मू॒लाया॑म् । व॒ल॒गम् । वा॒ । न॒रा॒च्याम् । क्षेत्रे॑ । ते॒ । कृ॒त्याम् । याम् । च॒क्रु: । पुन॑: । प्रति॑ । ह॒रा॒मि॒ । ताम् ॥३१.४ ॥
Mantra 5
यां ते॑ च॒क्रुर्गार्ह॑पत्ये पूर्वा॒ग्नावु॒त दु॒श्चितः॑। शाला॑यां कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ॥
याम् । ते॒ ।च॒क्रु: । गार्ह॑ऽपत्ये । पू॒र्व॒ऽअ॒ग्नौ । उ॒त । दु॒:ऽचित॑: । शाला॑याम् । कृ॒त्याम् । याम् । च॒क्रु: । पुन॑: । प्रति॑ । ह॒रा॒मि॒ । ताम् ॥३१.५॥
Mantra 6
यां ते॑ च॒क्रुः स॒भायां॒ यां च॒क्रुर॑धि॒देव॑ने। अ॒क्षेषु॑ कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ॥
याम् । ते॒ । च॒क्रु: । स॒भाया॑म् । याम् । च॒क्रु: । अ॒धि॒ऽदेव॑ने । अ॒क्षेषु॑ । कृ॒त्याम् । याम् । च॒क्रु: । पुन॑: । प्रति॑ । ह॒रा॒मि॒ । ताम् ॥३१.६॥
Mantra 7
यां ते॑ च॒क्रुः सेना॑यां॒ यां च॒क्रुरि॑ष्वायु॒धे। दु॑न्दु॒भौ कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ॥
याम् । ते॒ । च॒क्रु: । सेना॑याम् । याम् । च॒क्रु॒: । इ॒षु॒आ॒यु॒धे । दु॒न्दु॒भौ । कृ॒त्याम् । याम् । च॒क्रु: । पुन॑: । प्रति॑ । ह॒रा॒मि॒ । ताम् ॥३१.७॥
Mantra 8
यां ते॑ कृ॒त्यां कूपे॑ऽवद॒धुः श्म॑शा॒ने वा॑ निच॒ख्नुः। सद्म॑नि कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ॥
याम् । ते॒ । कृ॒त्याम् । कूपे॑ । अ॒व॒ऽद॒धु: । श्म॒शा॒ने । वा॒ । नि॒ऽच॒ख्नु: । सद्म॑नि । कृ॒त्याम् । याम् । च॒क्रु: । पुन॑: । प्रति॑ । ह॒रा॒मि॒ । ताम् ॥३१.८॥
Mantra 9
यां ते॑ च॒क्रुः पु॑रुषा॒स्थे अ॒ग्नौ संक॑सुके च॒ याम्। म्रो॒कं नि॑र्दा॒हं क्र॒व्यादं॒ पुनः॒ प्रति॑ हरामि॒ ताम् ॥
याम् । ते॒ । च॒क्रु: । पु॒रु॒ष॒ऽअ॒स्ये । अ॒ग्नौ । सम्ऽक॑सुके । च॒ । याम् । भ्रो॒कम् । नि॒:ऽदा॒हम् । क्र॒व्य॒ऽअद॑म् ।पुन॑: । प्रति॑ । ह॒रा॒मि॒ । ताम् ॥३१.९॥
Mantra 10
अप॑थे॒ना ज॑भारैणां॒ तां प॒थेतः प्र हि॑ण्मसि। अधी॑रो मर्या॒धीरे॑भ्यः॒ सं ज॑भा॒राचि॑त्त्या ॥
अप॑थेन । आ । ज॒भा॒र॒ । ए॒ना॒म् । ताम् । प॒था । इ॒त: । प्र । हि॒ण्म॒सि॒ । अधी॑र: । म॒र्या॒ऽधीरे॑भ्य: । सम् । ज॒भा॒र॒ ।अचि॑त्त्या ॥३१.१०॥
Mantra 11
यश्च॒कार॒ न श॒शाक॒ कर्तुं॑ श॒श्रे पाद॑म॒ङ्गुरि॑म्। च॒कार॑ भ॒द्रम॒स्मभ्य॑मभ॒गो भग॑वद्भ्यः ॥
य: । च॒कार॑ । न । श॒शाक॑ । कर्तु॑म् । श॒श्रे । पाद॑म् । अ॒ङ्गुरि॑न् । च॒कार॑ । भ॒द्रम् । अ॒स्मभ्य॑म् । अ॒भ॒ग: । भग॑वत्ऽभ्य: ॥३१.११॥
Mantra 12
कृ॑त्या॒कृतं वल॒गिनं॑ मू॒लिनं॑ शपथे॒य्य॑म्। इन्द्र॒स्तं ह॑न्तु मह॒ता व॒धेना॒ग्निर्वि॑ध्यत्व॒स्तया॑ ॥
कृ॒त्या॒ऽकृत॑म् । व॒ल॒गिन॑म् । मू॒लिन॑म् । श॒प॒थे॒य्य᳡म् । इन्द्र॑: । तम् । ह॒न्तु॒ । म॒ह॒ता । व॒धेन॑ । अ॒ग्नि: । वि॒ध्य॒तु॒ । अ॒स्तया॑ ॥३१.१२॥