Mantra 1
आ॒वत॑स्त आ॒वतः॑ परा॒वत॑स्त आ॒वतः॑। इ॒हैव भ॑व॒ मा नु गा॒ मा पूर्वा॒ननु॑ गाः पि॒तॄनसुं॑ बध्नामि ते दृ॒ढम् ॥
आ॒ऽवत॑: । ते॒ । आ॒ऽवत॑: । प॒रा॒ऽवत॑: । ते॒ । आ॒ उ॒न्मो॒च॒न॒प्र॒मो॒च॒ने इत्यु॑न्मोचनऽप्रमोच॒ने । उ॒भे इति॑ । वा॒चा । व॒दा॒मि॒ । ते॒ वत॑: । इ॒ह । ए॒व । भ॒व॒ । मा । नु । गा॒: । मा । पूर्वा॑न् । अनु॑ । गा॒: । पि॒तृन् । असु॑म् । ब॒ध्ना॒मि॒ । ते॒ । दृ॒ढम् ॥३०.१॥
Mantra 2
यत्त्वा॑भिचे॒रुः पुरु॑षः॒ स्वो यदर॑णो॒ जनः॑। उ॑न्मोचनप्रमोच॒ने उ॒भे वा॒चा व॑दामि ते ॥
यत् । त्वा॒ । अ॒भि॒ऽचे॒रु: । पुरु॑ष: । स्व: । यत् । अर॑ण: । जन॑: । उ॒न्मो॒च॒न॒प्र॒मो॒च॒ने इत्यु॑न्मोचनऽप्रमोच॒ने । उ॒भे इति॑ । वा॒चा । व॒दा॒मि॒ । ते॒ ॥३०.२॥
Mantra 3
यद्दु॒द्रोहि॑थ शेपि॒षे स्त्रि॒यै पुं॒से अचि॑त्त्या। उ॑न्मोचनप्रमोच॒ने उ॒भे वा॒चा व॑दामि ते ॥
यत् । दु॒द्रोहि॑थ । शे॒पि॒षे । स्त्रि॒यै । पु॒से । अचि॑त्त्या । उ॒न्मो॒च॒न॒प्र॒मो॒च॒ने इत्यु॑न्मोचनऽप्रमोच॒ने । उ॒भे इति॑ । वा॒चा । व॒दा॒मि॒ । ते॒ ॥३०.३॥
Mantra 4
यदेन॑सो मा॒तृकृ॑ता॒च्छेषे॑ पि॒तृकृ॑ताच्च॒ यत्। उ॑न्मोचनप्रमोच॒ने उ॒भे वा॒चा व॑दामि ते ॥
यत् । एन॑स: । मा॒तृकृ॑तात् । शेषे॑ । पि॒तृऽकृ॑तात् । च॒ । यत् । उ॒न्मो॒च॒न॒प्र॒मो॒च॒ने इत्यु॑न्मोचनऽप्रमोच॒ने । उ॒भे इति॑ । वा॒चा । व॒दा॒मि॒ । ते॒ ॥३०.४॥
Mantra 5
यत्ते॑ मा॒ता यत्ते॑ पि॒ता जा॒मिर्भ्राता॑ च॒ सर्ज॑तः। प्र॒त्यक्से॑वस्व भेष॒जं ज॒रद॑ष्टिं कृणोमि त्वा ॥
यत् । ते॒ । मा॒ता । यत् । ते॒ । पि॒ता । जा॒मि: । भ्राता॑ । च॒ । सर्ज॑त: । प्र॒त्यक् । से॒व॒स्व॒ । भे॒ष॒जम् । ज॒रत्ऽअ॑ष्टिम् । कृ॒णो॒मि॒। त्वा॒ ॥३०.५॥
Mantra 6
इ॒हैधि॑ पुरुष॒ सर्वे॑ण॒ मन॑सा स॒ह। दू॒तौ य॒मस्य॒ मानु॑ गा॒ अधि॑ जीवपु॒रा इ॑हि ॥
इ॒ह । ए॒धि॒ । पु॒रु॒ष॒ । सर्वे॑ण । मन॑सा । स॒ह । दू॒तौ । य॒मस्य॑ । मा । अनु॑ । गा॒: । अधि॑ । जी॒व॒ऽपु॒रा: । इ॒हि॒ ॥३०.६॥
Mantra 7
अनु॑हूतः॒ पुन॒रेहि॑ वि॒द्वानु॒दय॑नं प॒थः। आ॒रोह॑णमा॒क्रम॑णं॒ जीव॑तोजीव॒तोऽय॑नम् ॥
अनु॑ऽहूत: । पुन॑: । आ । इ॒हि॒ । वि॒द्वान् । उ॒त्ऽअय॑नम् । प॒थ: । आ॒ऽरोह॑णम् । आ॒ऽक्रम॑णम् । जीव॑त:ऽजीवत: । अय॑नम् ॥३०.७॥
Mantra 8
मा बि॑भे॒र्न म॑रिष्यसि ज॒रद॑ष्टिं कृणोमि त्वा। निर॑वोचम॒हं यक्ष्म॒मङ्गे॑भ्यो अङ्गज्व॒रं तव॑ ॥
मा । बि॒भे॒: । न । म॒रि॒ष्य॒सि॒ । ज॒रत्ऽअ॑ष्टिम् । कृ॒णो॒मि॒ । त्वा॒ । नि: । अ॒वो॒च॒म् । अ॒हम् । यक्ष्म॑म् । अङ्गे॑भ्य: । अ॒ङ्ग॒ऽज्व॒रम् । तव॑ ॥३०.८॥
Mantra 9
अ॑ङ्गभे॒दो अ॑ङ्गज्व॒रो यश्च॑ ते हृदयाम॒यः। यक्ष्मः॑ श्ये॒न इ॑व॒ प्राप॑प्तद्व॒चा सा॒ढः प॑रस्त॒राम् ॥
अ॒ङ्ग॒ऽभे॒द: । अ॒ङ्ग॒ऽज्व॒र: । य: । च॒ । ते॒ । हृ॒द॒य॒ऽआ॒म॒य: । यक्ष्म॑: । श्ये॒न:ऽइ॑व । प्र । अ॒प॒प्त॒त् । वा॒चा । सा॒ढ: । प॒र॒:ऽत॒राम् ॥३०.९॥
Mantra 10
ऋषी॑ बोधप्रतीबो॒धाव॑स्व॒प्नो यश्च॒ जागृ॑विः। तौ ते॑ प्रा॒णस्य॑ गो॒प्तारौ॒ दिवा॒ नक्तं॑ च जागृताम् ॥
ऋषी॒ इति॑ । बो॒ध॒ऽप्र॒ती॒बो॒धौ । अ॒स्व॒प्न: । य: । च॒ । जागृ॑वि: । तौ । ते॒ । प्रा॒णस्य॑ । गो॒प्तारौ॑ । दिवा॑ । नक्त॑म् । च॒ । जा॒गृ॒ता॒म् ॥३०.१०॥
Mantra 11
अ॒यम॒ग्निरु॑प॒सद्य॑ इ॒ह सूर्य॒ उदे॑तु ते। उ॒देहि॑ मृ॒त्योर्ग॑म्भी॒रात्कृ॒ष्णाच्चि॒त्तम॑स॒स्परि॑ ॥
अ॒यम् । अ॒ग्नि: । उ॒प॒ऽसद्य॑: । इ॒ह । सूर्य॑: । उत् । ए॒तु॒ । ते॒ । उ॒त्ऽएहि॑ । मृ॒त्यो: । ग॒म्भी॒रात् । कृ॒ष्णात् । चि॒त् । तम॑स: । परि॑ ॥३०.११॥
Mantra 12
नमो॑ य॒माय॒ नमो॑ अस्तु मृ॒त्यवे॒ नमः॑ पि॒तृभ्य॑ उ॒त ये नय॑न्ति। उ॒त्पार॑णस्य॒ यो वेद॒ तम॒ग्निं पु॒रो द॑धे॒ऽस्मा अ॑रि॒ष्टता॑तये ॥
नम॑: । य॒माय॑ । नम॑: । अ॒स्तु॒ । मृ॒त्यवे॑ । नम॑: । पि॒तृऽभ्य॑: । उ॒त । ये । नय॑न्ति । उ॒त्ऽपार॑णस्य । य: ।वेद॑ । तम् । अ॒ग्निम् । पु॒र: । द॒धे॒ । अ॒स्मै । अ॒रि॒ष्टऽता॑तये ॥३०.१२॥
Mantra 13
ऐतु॑ प्रा॒ण ऐतु॒ मन॒ ऐतु॒ चक्षु॒रथो॒ बल॑म्। शरी॑रमस्य॒ सम्वि॑दां॒ तत्प॒द्भ्यां प्रति॑ तिष्ठतु ॥
आ । ए॒तु॒ । प्रा॒ण: । आ । ए॒तु॒ । मन॑: । आ । ए॒तु॒ । चक्षु॑: । अथो॒ इति॑ । बल॑म् । शरी॑रम् । अ॒स्य॒ । सम् । वि॒दा॒म् । तत् । प॒त्ऽभ्याम् । प्रति॑ । ति॒ष्ठ॒तु॒ ॥३०.१३॥
Mantra 14
प्रा॒णेना॑ग्ने॒ चक्षु॑षा॒ सं सृ॑जे॒मं समी॑रय त॒न्वा॒ सं बले॑न। वेत्था॒मृत॑स्य॒ मा नु गा॒न्मा नु भूमि॑गृहो भुवत् ॥
प्रा॒णेन॑ । अ॒ग्ने॒ । चक्षु॑षा । सम् । सृ॒ज॒ । इ॒मम् । सम् । ई॒र॒य॒ । त॒न्वा᳡ । सम् । बले॑न । वेत्थ॑ । अ॒मृत॑स्य । मा । नु । गा॒त् । मा । नु । भूमि॑ऽगृह: । भु॒व॒त् ॥३०.१४॥
Mantra 15
मा ते॑ प्रा॒ण उप॑ दस॒न्मो अ॑पा॒नोऽपि॑ धायि ते। सूर्य॒स्त्वाधि॑पतिर्मृ॒त्योरु॒दाय॑च्छतु र॒श्मिभिः॑ ॥
मा । ते॒ । प्रा॒ण: । उप॑ । द॒स॒त् । मो इति॑ । अ॒पा॒न: । अपि॑ । धा॒यि॒ । ते॒ । सूर्य॑: । त्वा॒ । अधि॑ऽपति । मृ॒त्यो: । उ॒त्ऽआय॑च्छतु । र॒श्मिऽभि॑: ॥३०.१५॥
Mantra 16
इ॒यम॒न्तर्व॑दति जि॒ह्वा ब॒द्धा प॑निष्प॒दा। त्वया॒ यक्ष्मं निर॑वोचं श॒तं रोपी॑श्च त॒क्मनः॑ ॥
इ॒यम् । अ॒न्त: । व॒द॒ति॒ । जि॒ह्वा । ब॒ध्दा । प॒नि॒ष्प॒दा ।त्वया॑ । यक्ष्म॑म् । नि: । अ॒वो॒च॒म् । श॒तम् । रोपी॑: । च॒ । त॒क्मन॑: ॥३०.१६॥
Mantra 17
अ॒यं लो॒कः प्रि॒यत॑मो दे॒वाना॒मप॑राजितः। यस्मै॒ त्वमि॒ह मृ॒त्यवे॑ दि॒ष्टः पु॑रुष जज्ञि॒षे। स च॒ त्वानु॑ ह्वयामसि॒ मा पु॒रा ज॒रसो॑ मृथाः ॥
अ॒यम् । लो॒क: । प्रि॒यऽत॑म: । दे॒वाना॑म् । अप॑राऽजित: । यस्मै॑ । त्वम् । इ॒ह । मृ॒त्यवे॑ । दि॒ष्ट: । पु॒रु॒ष॒ । ज॒ज्ञि॒षे । स: । च॒ । त्वा॒ । अनु॑ । ह्व॒या॒म॒सि॒ । मा । पु॒रा । ज॒रस॑: । मृ॒था॒: ॥३०.१७॥