Mantra 1
ममा॑ग्ने॒ वर्चो॑ विह॒वेष्व॑स्तु व॒यं त्वेन्धा॑नास्त॒न्वं॑ पुषेम। मह्यं॑ नमन्तां प्र॒दिश॒श्चत॑स्र॒स्त्वयाध्य॑क्षेण॒ पृत॑ना जयेम ॥
मम॑ । अ॒ग्ने॒ । वर्च॑: । वि॒ऽह॒वेषु॑ । अ॒स्तु॒ । व॒यम् । त्वा॒ । इन्धा॑न: । त॒न्व᳡म् । पु॒षे॒म॒ ।मह्य॑म् । न॒म॒न्ता॒म् । प्र॒ऽदिश॑:।चत॑स्र:। त्वया॑ । अधि॑ऽअक्षेण । पृत॑ना: । ज॒ये॒म॒ ॥३.१॥
Mantra 2
अग्ने॑ म॒न्युं प्र॑तिनु॒दन्परे॑षां॒ त्वं नो॑ गो॒पाः परि॑ पाहि वि॒श्वतः॑। अपा॑ञ्चो यन्तु नि॒वता॑ दुर॒स्यवो॒ऽमैषां॑ चि॒त्तं प्र॒बुधां॒ वि ने॑शत् ॥
अग्ने॑ । म॒न्युम् । प्र॒ति॒ऽनु॒दन् । परे॑षाम् । त्वम् । न॒: । गो॒पा: । परि॑ । पा॒हि॒ । वि॒श्वत॑: ।अपा॑ञ्च: । य॒न्तु॒ । नि॒ऽवता॑ । दू॒र॒स्यव॑: । अ॒मा । ए॒षा॒म् । चि॒त्तम् । प्र॒ऽबुधा॑म् । वि । ने॒श॒त् ॥३.२॥
Mantra 3
मम॑ दे॒वा वि॑ह॒वे स॑न्तु॒ सर्व॒ इन्द्र॑वन्तो म॒रुतो॒ विष्णु॑र॒ग्निः। ममा॒न्तरि॑क्षमु॒रुलो॑कमस्तु॒ मह्यं॒ वातः॑ पवतां॒ कामा॑या॒स्मै ॥
मम॑ । दे॒वा: । वि॒ऽह॒वे । स॒न्तु॒ । सर्वे॑ । इन्द्र॑ऽवन्त: । म॒रुत॑: । विष्णु॑: । अ॒ग्नि: । मम॑ । अ॒न्तरि॑क्षम् । उ॒रुऽलो॑कम् । अ॒स्तु॒ । मह्य॑म् । वात॑: । प॒व॒ता॒म् । कामा॑य । अ॒स्मै ॥३.३॥
Mantra 4
मह्यं॑ यजन्तां॒ मम॒ यानी॒ष्टाकू॑तिः स॒त्या मन॑सो मे अस्तु। एनो॒ मा नि गां॑ कत॒मच्च॑ना॒हं विश्वे॑ दे॒वा अ॒भि र॑क्षन्तु मे॒ह ॥
मह्य॑म् । य॒ज॒न्ता॒म् । मम॑ । यानि॑ । इ॒ष्टा । आऽकू॑ति: । स॒त्या । मन॑स: । मे॒ । अ॒स्तु॒। एन॑: । मा । नि । गा॒म् । क॒त॒मत् । च॒न । अ॒हम् । विश्वे॑ । दे॒वा: । अ॒भि । र॒क्ष॒न्तु॒ । मा॒ । इ॒ह ॥३.४॥
Mantra 5
मयि॑ दे॒वा द्रवि॑ण॒मा य॑जन्तां॒ मय्या॒शीर॑स्तु॒ मयि॑ दे॒वहू॑तिः। दै॒वा होता॑रः सनिषन्न ए॒तदरि॑ष्टाः स्याम त॒न्वा॑ सु॒वीराः॑ ॥
मयि॑ । दे॒वा: । द्रवि॑णम् । आ । य॒ज॒न्ता॒म् । मयि॑ । आ॒ऽशी: । अ॒स्तु॒ । मयि॑ । दे॒वऽहू॑ति: । दै॒वा: । होता॑र: । स॒नि॒ष॒न् । न॒: । ए॒तत् । अरि॑ष्टा: । स्या॒म॒। त॒न्वा᳡। सु॒ऽवीरा॑: ॥३.५॥
Mantra 6
दैवीः॑ षडुर्वीरु॒रु नः॑ कृणोत॒ विश्वे॑ देवास इ॒ह मा॑दयध्वम्। मा नो॑ विददभि॒भा मो अश॑स्ति॒र्मा नो॑ विदद्वृजि॒ना द्वेष्या॒ या ॥
दैवी॑: । ष॒ट् । उ॒र्वी॒: । उ॒रु । न॒: । कृ॒णो॒त॒ । विश्वे॑ । दे॒वा॒स॒: । इह । मा॒द॒य॒ध्व॒म् । मा । न॒:। वि॒द॒त् ।अ॒भि॒ऽभा: । मो इति॑ । अश॑स्ति: । मा । न॒: । वि॒द॒त् । वृ॒जि॒ना । द्वेष्या॑ । या ॥३.६॥
Mantra 7
तिस्रो॑ देवी॒र्महि॑ नः॒ शर्म॑ यच्छत प्र॒जायै॑ नस्त॒न्वे॒ यच्च॑ पु॒ष्टम्। मा हा॑स्महि प्र॒जया॒ मा त॒नूभि॒र्मा र॑धाम द्विष॒ते सो॑म राजन् ॥
तिस्र॑: । दे॒वी॒: । महि॑ । न॒: । शर्म॑ । य॒च्छ॒त॒ । प्र॒ऽजायै॑ । न॒: । त॒न्वे᳡ । यत् । च॒ । पु॒ष्टम् । मा । हा॒स्म॒हि॒ । प्र॒ऽजया॑ । मा । त॒नूभि॑: । मा । र॒धा॒म॒ । द्वि॒ष॒ते । सो॒म॒ । रा॒ज॒न् ॥३.७॥
Mantra 8
उ॑रु॒व्यचा॑ नो महि॒षः शर्म॑ यच्छत्व॒स्मिन्हवे॑ पुरुहू॒तः पु॑रु॒क्षु। स नः॑ प्र॒जायै॑ हर्यश्व मृ॒डेन्द्र॒ मा नो॑ रीरिषो॒ मा परा॑ दाः ॥
उ॒रु॒ऽव्यचा॑: । न॒: । म॒हि॒ष: । शर्म॑ । य॒च्छ॒तु॒ । अ॒स्मिन् । हवे॑ । पु॒रु॒ऽहू॒त: पु॒रु॒ऽक्षु । स: ।न॒:। प्र॒ऽजायै॑ । ह॒रि॒ऽअ॒श्व॒ । मृ॒ड॒ । इन्द्र॑ । मा । न॒: । रि॒रि॒ष॒:। मा । परा॑ । दा॒: ॥३.८॥
Mantra 9
धा॒ता वि॑धा॒ता भुव॑नस्य॒ यस्पति॑र्दे॒वः स॑वि॒ताभि॑मातिषा॒हः। आ॑दि॒त्या रु॒द्रा अ॒श्विनो॒भा दे॒वाः पा॑न्तु॒ यज॑मानं निरृ॒थात् ॥
धा॒ता । वि॒ऽधा॒ता । भुव॑नस्य । य: । पति॑: । दे॒व: । स॒वि॒ता । अ॒भि॒मा॒ति॒ऽस॒ह:। आ॒दि॒त्या: । रु॒द्रा: । अ॒श्विना॑ । उ॒भा । दे॒वा: । पा॒न्तु॒ । यज॑मानम् । नि॒:ऽऋ॒थात् ॥३.९॥
Mantra 10
ये नः॑ स॒पत्ना॒ अप॒ ते भ॑वन्त्विन्द्रा॒ग्निभ्या॒मव॑ बाधामह एनान्। आ॑दि॒त्या रु॒द्रा उ॑परि॒स्पृशो॑ नो उ॒ग्रं चे॒त्तार॑मधिरा॒जम॑क्रत ॥
ये । न॒: । स॒ऽपत्ना॑: । अप॑। ते । भ॒व॒न्तु॒ । इ॒न्द्रा॒ग्निऽभ्या॑म् । अव॑ । बा॒धा॒म॒हे॒ । ए॒ना॒न् । आ॒दि॒त्या: । रु॒द्रा: । उ॒प॒रि॒ऽस्पृश॑: । न॒: । उ॒ग्रम् । चे॒त्तार॑म् । अ॒धि॒ऽरा॒जम् । अ॒क्र॒त॒ ॥३.१०॥
Mantra 11
अ॒र्वाञ्च॒मिन्द्र॑म॒मुतो॑ हवामहे॒ यो गो॒जिद्ध॑न॒जिद॑श्व॒जिद्यः। इ॒मं नो॑ य॒ज्ञं वि॑ह॒वे शृ॑णोत्व॒स्माक॑मभूर्हर्यश्व मे॒दी ॥
अ॒र्वाञ्च॑म् । इन्द्र॑म् । अ॒मुत: । ह॒वा॒म॒हे॒ । य: । गो॒ऽजित् । ध॒न॒ऽजित् । अ॒श्व॒ऽजित् । य: । इ॒मम् । न॒: । य॒ज्ञम् । वि॒ऽह॒वे । शृ॒णो॒तु॒ । अ॒स्माक॑म् । अ॒भू॒: । ह॒रि॒ऽअ॒श्व॒ । मे॒दी ॥३.११॥