Mantra 1
पु॒रस्ता॑द्यु॒क्तो व॑ह जातवे॒दोऽग्ने॑ वि॒द्धि क्रि॒यमा॑णं॒ यथे॒दम्। त्वं भि॒षग्भे॑ष॒जस्या॑सि क॒र्ता त्वया॒ गामश्वं॒ पुरु॑षं सनेम ॥
पु॒रस्ता॑त् । यु॒क्त: । व॒ह॒ । जा॒त॒ऽवे॒द॒: । अग्ने॑ । वि॒ध्दि । क्रि॒यमा॑णम् । यथा॑ । इ॒दम् । त्वम् । भि॒षक् । भे॒ष॒जस्य॑ । अ॒सि॒ । क॒र्ता । त्वया॑ । गाम् । अश्व॑म् । पुरु॑षम् । स॒ने॒म॒ ॥२९.१॥
Mantra 2
तथा॒ तद॑ग्ने कृणु जातवेदो॒ विश्वे॑भिर्दे॒वैः स॒ह सं॑विदा॒नः। यो नो॑ दि॒देव॑ यत॒मो ज॒घास॒ यथा॒ सो अ॒स्य प॑रि॒धिष्पता॑ति ॥
तथा॑ । तत् । अ॒ग्ने॒ । कृ॒णु॒ । जा॒त॒ऽवे॒द॒: । विश्वे॑भि: । दे॒वै: । स॒ह । स॒म्ऽवि॒दा॒न: । य: । न॒: । दि॒देव॑ । य॒त॒म: । ज॒घास॑ । यथा॑ । स: । अ॒स्य । प॒रि॒ऽधि: । पता॑ति ॥२९.२॥
Mantra 3
यथा॒ सो अ॒स्य प॑रि॒धिष्पता॑ति॒ तथा॒ तद॑ग्ने कृणु जातवेदः। विश्वे॑भिर्दे॒वैः स॒ह सं॑विदा॒नः ॥
यथा॑ । स: । अ॒स्य । प॒रि॒ऽधि: । पता॑ति । तथा॑ । तत् । अ॒ग्ने॒ । कृ॒णु॒ । जा॒त॒ऽवे॒द॒: । विश्वे॑भि: । दे॒वै: । स॒ह । स॒म्ऽवि॒दा॒न: ॥२९.३॥
Mantra 4
अ॒क्ष्यौ॒ नि वि॑ध्य॒ हृद॑यं॒ नि वि॑ध्य जि॒ह्वां नि तृ॑न्द्धि॒ प्र द॒तो मृ॑णीहि। पि॑शा॒चो अ॒स्य य॑त॒मो ज॒घासाग्ने॑ यविष्ठ॒ प्रति॑ तं शृणीहि ॥
अ॒क्ष्यौ᳡ । नि । वि॒ध्य॒। हृद॑यम् । नि । वि॒ध्य॒ । जि॒ह्वाम् । नि । तृ॒न्ध्दि॒ । प्र । द॒त्त: । मृ॒णी॒हि॒। पि॒शा॒च: । अ॒स्य । य॒त॒म: । ज॒घास॑ । अग्ने॑ । य॒वि॒ष्ठ॒ । प्रति॑ । तम् । शृ॒णी॒हि॒ ॥२९.४॥
Mantra 5
यद॑स्य हृ॒तं विहृ॑तं॒ यत्परा॑भृतमा॒त्मनो॑ ज॒ग्धं य॑त॒मत्पि॑शा॒चैः। तद॑ग्ने वि॒द्वान्पुन॒रा भ॑र॒ त्वं शरी॑रे मां॒समसु॒मेर॑यामः ॥
यत् । अ॒स्य॒ । हृ॒तम् । विऽहृ॑तम् । यत् । परा॑ऽभृतम् । आ॒त्मन॑: । ज॒ग्धम् । य॒त॒मत् । पि॒शा॒चै: । तत् । अ॒ग्ने॒ । वि॒द्वान् । पुन॑: । आ । भ॒र॒ । त्वम् । शरी॑रे । मां॒सम् ।असु॑म् । आ । ई॒र॒या॒म॒: ॥२९.५॥
Mantra 6
आ॒मे सुप॑क्वे श॒बले॒ विप॑क्वे॒ यो मा॑ पिशा॒चो अश॑ने द॒दम्भ॑। तदा॒त्मना॑ प्र॒जया॑ पिशा॒चा वि या॑तयन्तामग॒दोयम॑स्तु ॥
आ॒मे । सुऽप॑क्वे । श॒बले॑ । विऽप॑क्वे । य: । मा॒ । पि॒शा॒च: । अश॑ने । द॒दम्भ॑ । तत् । आ॒त्मना॑ । प्र॒ऽजया॑ । पि॒शा॒चा: । वि । या॒त॒य॒न्ता॒म् । अ॒ग॒द: । अ॒यम् ।अ॒स्तु॒ ॥२९.६॥
Mantra 7
क्षी॒रे मा॑ म॒न्थे य॑त॒मो द॒दम्भा॑कृष्टप॒च्ये अश॑ने धा॒न्ये॒ यः। तदा॒त्मना॑ प्र॒जया॑ पिशा॒चा वि या॑तयन्तामग॒दो॒यम॑स्तु ॥
क्षी॒रे । मा॒ । म॒न्थे । य॒त॒म: । द॒दम्भ॑ । अ॒कृ॒ष्ट॒ऽप॒च्ये । अश॑ने । धा॒न्ये᳡ । य: । तत् । आ॒त्मना॑ । प्र॒ऽजया॑ । पि॒शा॒चा: । वि । या॒त॒य॒न्ता॒म् । अ॒ग॒द: । अ॒यम् ।अ॒स्तु॒ ॥२९.७॥
Mantra 8
अ॒पां मा॒ पाने॑ यत॒मो द॒दम्भ॑ क्र॒व्याद्या॑तू॒नां शय॑ने॒ शया॑नम्। तदा॒त्मना॑ प्र॒जया॑ पिशा॒चा वि या॑तयन्तामग॒दो॒यम॑स्तु ॥
अ॒पाम् । मा॒ । पाने॑ । य॒त॒म: । द॒दम्भ॑ । क्र॒व्य॒ऽअत् । या॒तू॒नाम् । शय॑ने । शया॑नम् । ॥२९.८॥
Mantra 9
दिवा॑ मा॒ नक्तं॑ यत॒मो द॒दम्भ॑ क्र॒व्याद्या॑तू॒नां शय॑ने॒ शया॑नम्। तदा॒त्मना॑ प्र॒जया॑ पिशा॒चा वि या॑तयन्तामग॒दो॒यम॑स्तु ॥
दिवा॑ । मा॒ । नक्त॑म् । य॒त॒म: । द॒दम्भ॑ । क्र॒व्य॒ऽअत् । या॒तू॒नाम् । शय॑ने । शया॑नम् । तत् । आ॒त्मना॑ । प्र॒ऽजया॑ । पि॒शा॒चा: । वि । या॒त॒य॒न्ता॒म् । अ॒ग॒द: । अ॒यम् ।अ॒स्तु॒ ॥२९.९॥
Mantra 10
क्र॒व्याद॑मग्ने रुधि॒रं पि॑शा॒चं म॑नो॒हनं॑ जहि जातवेदः। तमिन्द्रो॑ वा॒जी वज्रे॑ण हन्तु छि॒नत्तु॒ सोमः॒ शिरो॑ अस्य धृ॒ष्णुः ॥
क्र॒व्य॒ऽअद॑म्। अ॒ग्ने॒ । रु॒धि॒रम् । पि॒शा॒चम् । म॒न॒:ऽहन॑म् । ज॒हि॒ । जा॒त॒ऽवे॒द॒: । तम् । इन्द्र॑: । वा॒जी । वज्रे॑ण । ह॒न्तु॒ । छि॒नत्तु॑ । सोम॑: । शिर॑: । अ॒स्य॒ । धृ॒ष्णु: ॥२९.१०॥
Mantra 11
स॒नाद॑ग्ने मृणसि यातु॒धाना॒न्न त्वा॒ रक्षां॑सि॒ पृत॑नासु जिग्युः। स॒हमू॑रा॒ननु॑ दह क्र॒व्यादो॒ मा ते॑ हे॒त्या मु॑क्षत॒ दैव्या॑याः ॥
स॒नात् । अ॒ग्ने॒ । मृ॒ण॒सि॒ । या॒तु॒ऽधाना॑न् । न । त्वा॒ । रक्षां॑सि । पृत॑नासु । जि॒ग्यु॒: । स॒हऽमू॑रान् । अनु॑ । द॒ह॒ । क्र॒व्य॒ऽअद॑: । मा । ते॒ । हे॒त्या: । मु॒क्ष॒त॒ । दैव्या॑या: ॥२९.११॥
Mantra 12
स॒माह॑र जातवेदो॒ यद्धृ॒तं यत्परा॑भृतम्। गात्रा॑ण्यस्य वर्धन्तामं॒शुरि॒वा प्या॑यताम॒यम् ॥
स॒म्ऽआह॑र । जा॒त॒ऽवे॒द॒: । यत् । हृ॒तम् । यत् । परा॑ऽभृतम् । गात्रा॑णि । अ॒स्य॒ । व॒र्ध॒न्ता॒म् । अं॒शु:ऽइ॑व । आ । प्या॒य॒ता॒म् । अ॒यम् ॥२९.१२॥
Mantra 13
सोम॑स्येव जातवेदो अं॒शुरा प्या॑यताम॒यम्। अग्ने॑ विर॒प्शिनं॒ मेध्य॑मय॒क्ष्मं कृ॑णु॒ जीव॑तु ॥
सोम॑स्यऽइव । जा॒त॒ऽवे॒द॒: । अ॒शु: । आ । प्या॒य॒ता॒म् । अ॒यम् । अग्ने॑ । वि॒ऽर॒प्शिन॑म् । मेध्य॑म् । अ॒य॒क्ष्मम् । कृ॒णु॒ । जीव॑तु ॥२९.१३॥
Mantra 14
ए॒तास्ते॑ अग्ने स॒मिधः॑ पिशाच॒जम्भ॑नीः। तास्त्वं जु॑षस्व॒ प्रति॑ चैना गृहाण जातवेदः ॥
ए॒ता: । ते॒ । अ॒ग्ने॒ । स॒म्ऽइध॑: । पि॒शा॒च॒ऽजम्भ॑नी: । ता: । त्वम् । जु॒ष॒स्व॒ । प्रति॑ । च॒ । ए॒ना॒: । गृ॒हा॒ण॒ । जा॒त॒ऽवे॒द॒: ॥२९.१४॥
Mantra 15
ता॑र्ष्टा॒घीर॑ग्ने स॒मिधः॒ प्रति॑ गृह्णाह्य॒र्चिषा॑। जहा॑तु क्र॒व्याद्रू॒पं यो अ॑स्य मां॒सं जिही॑र्षति ॥
ता॒र्ष्ट॒ऽअ॒घी: । अ॒ग्ने॒ । स॒म्ऽइध॑: । प्रति॑ । गृ॒ह्णा॒हि॒ । अ॒र्चिषा॑ । जहा॑तु । क्र॒व्य॒ऽअत् । रू॒पम् । य: । अ॒स्य॒ । मां॒सम् । जिही॑र्षति ॥२९.१५॥