Mantra 1
नव॑ प्रा॒णान्न॒वभिः॒ सं मि॑मीते दीर्घायु॒त्वाय॑ श॒तशा॑रदाय। हरि॑ते॒ त्रीणि॑ रज॒ते त्रीण्यय॑सि॒ त्रीणि॒ तप॒सावि॑ष्ठितानि ॥
नव॑ । प्रा॒णान् । न॒वऽभि॑: । सम् । मि॒मी॒ते॒ । दी॒र्घा॒यु॒ऽत्वाय॑ । श॒तऽशा॑रदाय । हरि॑ते । त्रीणि॑ । र॒ज॒ते॒ । त्रीणि॑ । अय॑सि ।त्रीणि॑ । तप॑सा । आऽवि॑स्थितानि ॥२८.१॥
Mantra 2
अ॒ग्निः सूर्य॑श्च॒न्द्रमा॒ भूमि॒रापो॒ द्यौर॒न्तरि॑क्षं प्र॒दिशो॒ दिश॑श्च। आ॑र्त॒वा ऋ॒तुभिः॑ संविदा॒ना अ॒नेन॑ मा त्रि॒वृता॑ पारयन्तु ॥
अ॒ग्नि: । सूर्य॑: । च॒न्द्रमा॑: । भूमि॑: । आप॑: । द्यौ: । अ॒न्तरि॑क्षम् । प्र॒ऽदिश॑: । दिश॑: । च॒ । आ॒र्त॒वा: । ऋ॒तुऽभि॑: । स॒म्ऽवि॒दा॒ना: । अ॒नेन॑ ।मा॒ । त्रि॒ऽवृता॑ । पा॒र॒य॒न्तु॒ ॥२८.२॥
Mantra 3
त्रयः॒ पोष॑स्त्रि॒वृति॑ श्रयन्ताम॒नक्तु॑ पू॒षा पय॑सा घृ॒तेन॑। अन्न॑स्य भू॒मा पुरु॑षस्य भू॒मा भू॒मा प॑शू॒नां त॑ इ॒ह श्र॑यन्ताम् ॥
त्रय॑:। पोषा॑: । त्रि॒ऽवृति॑। श्र॒य॒न्ता॒म् । अ॒नक्तु॑ । पू॒षा । पय॑सा । घृ॒तेन॑ । अन्न॑स्य । भू॒मा । पुरु॑षस्य । भू॒मा । भू॒मा । प॒शू॒नाम् । ते । इ॒ह । श्र॒य॒न्ता॒म् ॥२८.३॥
Mantra 4
इ॒ममा॑दित्या॒ वसु॑ना॒ समु॑क्षते॒मम॑ग्ने वर्धय वावृधा॒नः। इ॒ममि॑न्द्र॒ सं सृ॑ज वी॒र्ये॑णा॒स्मिन्त्रि॒वृच्छ्र॑यतां पोषयि॒ष्णु ॥
इ॒मम् । आ॒दि॒त्या॒: । वसु॑ना । सम् । उ॒क्ष॒त॒ । इ॒मम् । अ॒ग्ने॒ । वर्ध॒य॒ । व॒वृ॒धा॒न:। इ॒मम् । इ॒न्द्र॒ । सम् । सृ॒ज॒ । वी॒र्ये᳡ण । अ॒स्मिन् । त्रि॒ऽवृत् । श्र॒य॒ता॒म् । पो॒ष॒यि॒ष्णु ॥२८.४॥
Mantra 5
भूमि॑ष्ट्वा पातु॒ हरि॑तेन विश्व॒भृद॒ग्निः पि॑प॒र्त्वय॑सा स॒जोषाः॑। वी॒रुद्भि॑ष्टे॒ अर्जु॑नं संविदा॒नं दक्षं॑ दधातु सुमन॒स्यमा॑नम् ॥
भूमि॑: । त्वा॒ । पा॒तु॒। हरि॑तेन । वि॒श्व॒ऽभृत् । अ॒ग्नि: । पि॒प॒र्तु॒ । अय॑सा । स॒ऽजोषा॑: । वी॒रुत्ऽभि॑: । ते॒ । अर्जु॑नम् । स॒म्ऽवि॒दा॒नम् । दक्ष॑म् । द॒धा॒तु । सु॒ऽम॒न॒स्यमान॑म् ॥२८.५॥
Mantra 6
त्रे॒धा जा॒तं जन्म॑ने॒दं हिर॑ण्यम॒ग्नेरेकं॑ प्रि॒यत॑मं बभूव॒ सोम॒स्यैकं॑ हिंसि॒तस्य॒ परा॑पतत्। अ॒पामेकं॑ वे॒धसां॒ रेत॑ आहु॒स्तत्ते॒ हिर॑ण्यं त्रि॒वृद॒स्त्वायु॑षे ॥
त्रे॒धा । जा॒तम् । जन्म॑ना । इ॒दम् । हिर॑ण्यम् । अ॒ग्ने: । एक॑म् । प्रि॒यऽत॑मम् । ब॒भू॒व॒ । सोम॑स्य । एक॑म् । हिं॒सि॒तस्य॑ । परा॑ । अ॒प॒त॒त् । अ॒पाम् । एक॑म् । वे॒धसा॑म् । रेत॑: ।आ॒हु॒: । तत् । ते॒ । हिर॑ण्यम् । त्रि॒ऽवृत् । अ॒स्तु॒ । आयु॑षे ॥२८.६॥
Mantra 7
त्र्या॑यु॒षं ज॒मद॑ग्नेः क॒श्यप॑स्य त्र्यायु॒षम्। त्रे॒धामृत॑स्य॒ चक्ष॑णं॒ त्रीण्यायूं॑षि तेऽकरम् ॥
त्रि॒ऽआ॒यु॒षम् । ज॒मत्ऽअ॑ग्ने: । क॒श्यप॑स्य । त्रि॒ऽआ॒यु॒षम् । त्रे॒धा । अ॒मृत॑स्य । चक्ष॑णम् । त्रिणि॑ । आयूं॑षि । ते॒ । अ॒क॒र॒म् ॥२८.७॥
Mantra 8
त्रयः॑ सुप॒र्णास्त्रि॒वृता॒ यदाय॑न्नेकाक्ष॒रम॑भिसं॒भूय॑ श॒क्राः। प्रत्यौ॑हन्मृ॒त्युम॒मृते॑न सा॒कम॑न्त॒र्दधा॑ना दुरि॒तानि॒ विश्वा॑ ॥
त्रय॑: । सु॒ऽप॒र्णा: । त्रि॒ऽवृता॑ । यत् । आय॑न् । ए॒क॒ऽअ॒क्ष॒रम् । अ॒भि॒ऽसं॒भूय॑ । श॒क्रा: । प्रति॑ । औ॒ह॒न् । मृ॒त्युम् ।अ॒मृते॑न । सा॒कम् । अ॒न्त॒:ऽदधा॑ना: । दु॒:ऽइ॒तानि॑ । विश्वा॑ ॥२८.८॥
Mantra 9
दि॒वस्त्वा॑ पातु॒ हरि॑तं॒ मध्या॑त्त्वा पा॒त्वर्जु॑नम्। भूम्या॑ अय॒स्मयं॑ पातु॒ प्रागा॑द्देवपु॒रा अ॒यम् ॥
दि॒व: । त्वा॒ । पा॒तु॒ । हरि॑तम् । मध्या॑त् । त्वा॒ । पा॒तु॒ । अर्जु॑नम् । भूम्या॑: । अ॒य॒स्मय॑म् । पा॒तु॒ । प्र । अ॒गा॒त् । दे॒व॒ऽपु॒रा: । अ॒यम् ॥२८.९॥
Mantra 10
इ॒मास्ति॒स्रो दे॑वपु॒रास्तास्त्वा॑ रक्षन्तु स॒र्वतः॑। तास्त्वं बिभ्र॑द्वर्च॒स्व्युत्त॑रो द्विष॒तां भ॑व ॥
इ॒मा: । ति॒स्र: । दे॒व॒ऽपु॒रा: । ता: । त्वा॒। र॒क्ष॒न्तु॒ । स॒र्वत॑: । ता: । त्वम् । बिभ्र॑त् । व॒र्च॒स्वी । उत्त॑र: । द्वि॒ष॒ताम् । भ॒व॒ ॥२८.१०॥
Mantra 11
पुरं॑ दे॒वाना॑म॒मृतं॒ हिर॑ण्यं॒ य आ॑बे॒धे प्र॑थ॒मो दे॒वो अग्रे॑। तस्मै॒ नमो॒ दश॒ प्राचीः॑ कृणो॒म्यनु॑ मन्यतां त्रि॒वृदा॒बधे॑ मे ॥
पुर॑म् । दे॒वाना॑म् । अ॒मृतम् । हिर॑ण्यम् । य: । आ॒ऽवे॒धे । प्र॒थ॒म: । दे॒व: । अग्रे॑ । तस्मै॑ । नम॑: । दश॑ । प्राची॑: । कृ॒णो॒मि॒ । अनु॑ । म॒न्य॒ता॒म् । त्रि॒ऽवृत् । आ॒ऽवधे॑ । मे॒ ॥२८.११॥
Mantra 12
आ त्वा॑ चृतत्वर्य॒मा पू॒षा बृह॒स्पतिः॑। अह॑र्जातस्य॒ यन्नाम॒ तेन॒ त्वाति॑ चृतामसि ॥
आ । त्वा॒ । चृ॒त॒तु॒ । अ॒र्य॒मा । आ । पू॒षा । आ । बृह॒स्पति॑: । अह॑:ऽजातस्य । यत् । नाम॑ । तेन॑ । त्वा॒ । अति॑ । घृ॒ता॒म॒सि॒ ॥२८.१२॥
Mantra 13
ऋ॒तुभि॑ष्ट्वार्त॒वैरायु॑षे॒ वर्च॑से त्वा। सं॑वत्स॒रस्य॒ तेज॑सा॒ तेन॒ संह॑नु कृण्मसि ॥
ऋ॒तुऽभि॑: । त्वा॒ । आ॒र्त॒वै: । आयु॑षे । वर्च॑से । त्वा॒। स॒म्ऽव॒त्स॒रस्य॑। तेज॑सा । तेन॑ । सम्ऽह॑नु । कृ॒ण्म॒सि॒ ॥२८.१३॥
Mantra 14
घृ॒तादुल्लु॑प्तं॒ मधु॑ना॒ सम॑क्तं भूमिदृं॒हमच्यु॑तं पारयि॒ष्णु। भि॒न्दन्त्स॒पत्ना॒नध॑रांश्च कृ॒ण्वदा मा॑ रोह मह॒ते सौभ॑गाय ॥
घृ॒तात्। उत्ऽलु॑प्तम् । मधु॑ना । सम्ऽअ॑क्तम् । भू॒मि॒ऽदृं॒हम् । अच्यु॑तम् । पा॒र॒यि॒ष्णु । भि॒न्दत् । स॒ऽपत्ना॑न् । अध॑रान् । च॒ । कृ॒ण्वत् । आ । मा॒ । रो॒ह॒ । म॒ह॒ते । सौभ॑गाय ॥२८.१४॥