Available Bhashyas

Bhashyas

Choose the bhashyas to show on this mantra page.

Atharvaveda - Mantra 14

Atharvaveda 5/24/14

31 Sukta
17 Mantra
5/24/14
Devata- यमः Rishi- अथर्वा Chhanda- अतिशक्वरी Suktam- ब्रह्मकर्म सूक्त
Mantra with Swara
य॒मः पि॑तॄ॒णामधि॑पतिः॒ स मा॑वतु। अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ॥

य॒म: । पि॒तृ॒णाम् । अधि॑ऽपति: । स: । मा॒ । अ॒व॒तु॒ । अ॒स्मिन् । कर्म॑णि । अ॒स्याम् । पु॒र॒:ऽधाया॑म् । अ॒स्याम् । प्र॒ति॒ऽस्थाया॑म् । अ॒स्याम् । चित्त्या॑म् । अ॒स्याम् । आऽकू॑त्याम् । अ॒स्याम् । आ॒ऽशिषि॑ । अ॒स्याम् । दे॒वऽहू॑त्याम् । स्वाहा॑ ॥२४.१४॥

Mantra without Swara
यमः पितॄणामधिपतिः स मावतु। अस्मिन्ब्रह्मण्यस्मिन्कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्यां चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥

यम: । पितृणाम् । अधिऽपति: । स: । मा । अवतु । अस्मिन् । कर्मणि । अस्याम् । पुर:ऽधायाम् । अस्याम् । प्रतिऽस्थायाम् । अस्याम् । चित्त्याम् । अस्याम् । आऽकूत्याम् । अस्याम् । आऽशिषि । अस्याम् । देवऽहूत्याम् । स्वाहा ॥२४.१४॥

Meaning
१. (यमः) = नियन्त्रण में चलानेवाला आचार्य (पितृणाम् अधिपति:) = पितरों का स्वामी है। सर्वोत्तम पिता आचार्य है जो हमें धर्म-मार्ग के व्यतिक्रम से बचाता है। (सः) = वह नियन्ता आचार्य (मा अवतु) = मेरा रक्षण करे। आचार्य के गर्भ में सुरक्षित हुआ-हुआ मैं विषयों के आक्रमण से बचा रहूँ और ज्ञानादि कर्मों में प्रवृत्त रहूँ। शेष पूर्ववत्।
Essence
आचार्य के नियन्त्रण में मेरे जीवन का उपक्रम हो। आचार्य द्वारा परिपक्व बुद्धि बनाया जाकर मैं संसार में पदार्पण करूँ और सदा उत्तम कार्यों में ही प्रवृत्त रहूँ।
Subject
'पितृणाम् अधिपतिः' यमः

We are thankful to https://vedicscriptures.in for providing us a substantial amount of data for this section of the Vedas.