Mantra 1
ओते॑ मे॒ द्यावा॑पृथि॒वी ओता॑ दे॒वी सर॑स्वती। ओतौ॑ म॒ इन्द्र॑श्चा॒ग्निश्च॒ क्रिमिं॑ जम्भयता॒मिति॑ ॥
ओते॒ इत्याऽउ॑ते । मे॒ ।द्यावा॑पृथि॒वी इति॑ । आऽउ॑ता । दे॒वी । सर॑स्वती । आऽउ॑तौ । मे॒ । इन्द्र॑: । च॒ । अ॒ग्नि: । च॒ । क्रिमि॑म् । ज॒म्भ॒य॒ता॒म् । इति॑ ॥२३.१॥
Mantra 2
अ॒स्येन्द्र॑ कुमा॒रस्य॒ क्रिमी॑न्धनपते जहि। ह॒ता विश्वा॒ अरा॑तय उ॒ग्रेण॒ वच॑सा॒ मम॑ ॥
अ॒स्य । इ॒न्द्र॒ । कु॒मा॒रस्य॑ । क्रिमी॑न् । ध॒न॒ऽप॒ते॒ । ज॒हि॒ । ह॒ता: । विश्वा॑:। अरा॑तय: । उ॒ग्रेण॑ । वच॑सा । मम॑ ॥२३.२॥
Mantra 3
यो अ॒क्ष्यौ॑ परि॒सर्प॑ति॒ यो नासे॑ परि॒सर्प॑ति। द॒तां यो मद्यं॒ गच्छ॑ति॒ तं क्रिमिं॑ जम्भयामसि ॥
य: । अ॒क्ष्यौ᳡ । प॒रि॒ऽसर्प॑ति । य: । नासे॒ इति॑ । प॒रि॒ऽसर्प॑ति । द॒ताम् । य: । मध्य॑म् । गच्छ॑ति । तम् । क्रिमि॑म् । ज॒म्भ॒या॒म॒सि॒ ॥२३.३॥
Mantra 4
सरू॑पौ॒ द्वौ विरू॑पौ॒ द्वौ कृ॒ष्णौ द्वौ रोहि॑तौ॒ द्वौ। ब॒भ्रुश्च॑ ब॒भ्रुक॑र्णश्च॒ गृध्रः॒ कोक॑श्च॒ ते ह॒ताः ॥
सऽरू॑पौ । द्वौ । विऽरू॑पौ । द्वौ । कृ॒ष्णौ । द्वौ । रोहि॑तौ । द्वौ । ब॒भ्रु: । च॒ । ब॒भ्रुऽक॑र्ण: । च॒ । गृध्र॑ । कोक॑: । च॒ । ते । ह॒ता: ॥२३.४॥
Mantra 5
ये क्रिम॑यः शिति॒कक्षा॒ ये कृ॒ष्णाः शि॑ति॒बाह॑वः। ये के च॑ वि॒श्वरू॑पा॒स्तान्क्रिमी॑न् जम्भयामसि ॥
ये । क्रिम॑य: । शि॒ति॒ऽकक्षा॑: । ये । कृ॒ष्णा: । शि॒ति॒ऽबाह॑व: । ये । के । च॒ । वि॒श्वऽरू॑पा: । तान् । क्रिमी॑न् । ज॒म्भ॒या॒म॒सि॒ ॥२३.५॥
Mantra 6
उत्पु॒रस्ता॒त्सूर्य॑ एति वि॒श्वदृ॑ष्टो अदृष्ट॒हा। दृ॒ष्टांश्च॒ घ्नन्न॒दृष्टां॑श्च॒ सर्वां॑श्च प्रमृ॒णन्क्रिमी॑न् ॥
उत् । पु॒रस्ता॑त् । सूर्य॑: । ए॒ति॒ । वि॒श्वऽदृ॑ष्ट: । अ॒दृ॒ष्ट॒ऽहा । दृ॒ष्टान् । च॒ । घ्नन् । अ॒दृष्टा॑न् । च॒ । सर्वा॑न् । च॒ । प्र॒ऽमृ॒णन् । क्रिमी॑न् ॥२३.६॥
Mantra 7
येवा॑षासः॒ कष्क॑षास एज॒त्काः शि॑पवित्नु॒काः। दृ॒ष्टश्च॑ ह॒न्यतां॒ क्रिमि॑रु॒तादृष्ट॑श्च हन्यताम् ॥
येवा॑षास: । कष्क॑षास: । ए॒ज॒त्ऽका: । शि॒प॒वि॒त्नु॒का: । दृ॒ष्ट: । च॒ । ह॒न्यता॑म् । क्रिमि॑: । उ॒त । अ॒दृष्ट॑: । च॒ । ह॒न्य॒ता॒म् ॥२३.७॥
Mantra 8
ह॒तो येवा॑षः॒ क्रिमी॑णां ह॒तो न॑दनि॒मोत। सर्वा॒न्नि म॑ष्म॒षाक॑रं दृ॒षदा॒ खल्वाँ॑ इव ॥
ह॒त: । येवा॑ष: । क्रिमी॑णाम् । ह॒त: । न॒द॒नि॒मा । उ॒त । सर्वा॑न् । नि । म॒ष्म॒षा । अ॒क॒र॒म् । दृ॒षदा॑ । खल्वा॑न्ऽइव ॥२३.८॥
Mantra 9
त्रि॑शी॒र्षाणं॑ त्रिक॒कुदं॒ क्रिमिं॑ सा॒रङ्ग॒मर्जु॑नम्। शृ॒णाम्य॑स्य पृ॒ष्टीरपि॑ वृश्चामि॒ यच्छिरः॑ ॥
त्रि॒ऽशी॒र्षाण॑म् । त्रि॒ऽक॒कुद॑म् । क्रिमि॑म् । सा॒रङ्ग॑म् । अर्जु॑नम् । शृ॒णामि॑ । अ॒स्य॒ । पृ॒ष्टी: । अपि॑ । वृ॒श्चा॒मि॒ । यत् । शिर॑: ॥२३.९॥
Mantra 10
अ॑त्रि॒वद्वः॑ क्रिमयो हन्मि कण्व॒वज्ज॑मदग्नि॒वत्। अ॒गस्त्य॑स्य॒ ब्रह्म॑णा॒ सं पि॑नष्म्य॒हं क्रिमी॑न् ॥
अ॒त्त्रि॒ऽवत् । व॒: । क्रि॒म॒य॒: । ह॒न्मि॒ । क॒ण्व॒ऽवत् । ज॒म॒द॒ग्नि॒ऽवत् । अ॒गस्त्य॑स्य । ब्रह्म॑णा । सम् । पि॒न॒ष्मि॒ । अ॒हम् । क्रिमी॑न् ॥२३.१०॥
Mantra 11
ह॒तो राजा॒ क्रिमी॑णामु॒तैषां॑ स्थ॒पति॑र्ह॒तः। ह॒तो ह॒तमा॑ता॒ क्रिमि॑र्ह॒तभ्रा॑ता ह॒तस्व॑सा ॥
ह॒त: । राजा॑ । क्रिमी॑णाम् । उ॒त । ए॒षा॒म् । स्थ॒पति॑:। ह॒त: । ह॒त: । ह॒तमा॑ता । क्रिमि॑: । ह॒तऽभ्रा॑ता । ह॒तऽस्व॑सा ॥२३.११॥
Mantra 12
ह॒तासो॑ अस्य वे॒शसो॑ ह॒तासः॒ परि॑वेशसः। अथो॒ ये क्षु॑ल्ल॒का इ॑व॒ सर्वे॒ ते क्रिम॑यो ह॒ताः ॥
ह॒तास॑: । अ॒स्य॒ । वेशस॑: । ह॒तास॑: । परि॑ऽवेशस: । अथो॒ इति॑ । ये । क्षु॒ल्ल॒का:ऽइ॑व । सर्वे॑ । ते । क्रिम॑य: । ह॒ता: ॥२३.१२॥
Mantra 13
सर्वे॑षां च॒ क्रिमी॑णां॒ सर्वा॑सां च क्रि॒मीना॑म्। भि॒नद्म्यश्म॑ना॒ शिरो॒ दहा॑म्य॒ग्निना॒ मुख॑म् ॥
सर्वे॑षाम् ।च॒ । क्रिमी॑णाम् । सर्वा॑साम् । च॒ । क्रि॒मीणा॑म् । भि॒नद्मि॑ । अश्म॑ना । शिर॑: । दहा॑मि । अ॒ग्निना॑ । मुख॑म् ॥२३.१३॥