Mantra 1
अ॑तिमा॒त्रम॑वर्धन्त॒ नोदि॑व॒ दिव॑मस्पृशन्। भृगुं॑ हिंसि॒त्वा सृञ्ज॑या वैतह॒व्याः परा॑भवन् ॥
अ॒ति॒ऽमा॒त्रम् । अ॒व॒र्ध॒न्त॒ । न । उत्ऽइ॑व । दिव॑म् । अ॒स्पृ॒श॒न् । भृगु॑म् । हिं॒सि॒त्वा । सृन्ऽज॑या: । वै॒त॒ऽह॒व्या: । परा॑ । अ॒भ॒व॒न् ॥१९.१॥
Mantra 2
ये बृ॒हत्सा॑मानमाङ्गिर॒समार्प॑यन्ब्राह्म॒णं जनाः॑। पेत्व॒स्तेषा॑मुभ॒याद॒मवि॑स्तो॒कान्या॑वयत् ॥
ये । बृ॒हत्ऽसा॑मानम् । अ॒ङ्गि॒र॒सम् । आर्प॑यन् । ब्रा॒ह्म॒णम् । जना॑: । पेत्व॑: । तेषा॑म् । उ॒भ॒याद॑म् । अवि॑: । तो॒कानि॑ । आ॒व॒य॒त् ॥१९.२॥
Mantra 3
ये ब्रा॑ह्म॒णं प्र॒त्यष्ठी॑व॒न्ये वा॑स्मिञ्छु॒ल्कमी॑षि॒रे। अ॒स्नस्ते॒ मध्ये॑ कु॒ल्यायाः॒ केशा॒न्खाद॑न्त आसते ॥
ये । ब्रा॒ह्म॒णम् । प्र॒ति॒ऽअष्ठी॑वन् । ये । वा॒ । अ॒स्मि॒न् । शु॒ल्कम् । ई॒षि॒रे । अ॒स्न: । ते । मध्ये॑ । कु॒ल्याया॑: । केशा॑न् ।खाद॑न्त: । आ॒स॒ते॒ ॥१९.३॥
Mantra 4
ब्र॑ह्मग॒वी प॒च्यमा॑ना॒ याव॒त्साभि वि॒जङ्ग॑हे। तेजो॑ रा॒ष्ट्रस्य॒ निर्ह॑न्ति॒ न वी॒रो जा॑यते॒ वृषा॑ ॥
ब्र॒ह्म॒ऽग॒वी । प॒च्यमा॑ना । याव॑त् । सा । अ॒भि । वि॒ऽजङ्ग॑हे । तेज॑: । रा॒ष्ट्रस्य॑ । नि: । ह॒न्ति॒ । न । वी॒र: । जा॒य॒ते॒ । वृषा॑ ॥१९.४॥
Mantra 5
क्रू॒रम॑स्या आ॒शस॑नं तृ॒ष्टं पि॑शि॒तम॑स्यते। क्षी॒रं यद॑स्याः पी॒यते॒ तद्वै पि॒तृषु॒ किल्बि॑षम् ॥
क्रू॒रम् । अ॒स्या॒: । आ॒ऽशस॑नम् । तृ॒ष्टम् । पि॒शि॒तम् । अ॒स्य॒ते॒ । क्षी॒रम् । यत् । अ॒स्या॒: । पी॒यते॑ । तत् । वै । पि॒तृषु॑ । किल्बि॑षम् ॥१९.५॥
Mantra 6
उ॒ग्रो राजा॒ मन्य॑मानो ब्राह्म॒णं यो जिघ॑त्सति। परा॒ तत्सि॑च्यते रा॒ष्ट्रं ब्रा॑ह्म॒णो यत्र॑ जी॒यते॑ ॥
उ॒ग्र: । राजा॑ । मन्य॑मान:। ब्रा॒ह्म॒णम् । य: । जिघ॑त्सति । परा॑ । तत् । सि॒च्य॒ते॒ । रा॒ष्ट्रम् । ब्रा॒ह्म॒ण: । यत्र॑ । जी॒यते॑ ॥१९.६॥
Mantra 7
अ॒ष्टाप॑दी चतुर॒क्षी चतुः॑श्रोत्रा॒ चतु॑र्हनुः। द्व्या॑स्या॒ द्विजि॑ह्वा भू॒त्वा सा रा॒ष्ट्रमव॑ धूनुते ब्रह्म॒ज्यस्य॑ ॥
अ॒ष्टाऽप॑दी । च॒तु:ऽअ॒क्षी: । चतु॑:ऽश्रोत्रा । चतु॑:ऽहनु: । द्विऽआ॑स्या । द्विऽजि॑ह्वा । भू॒त्वा । सा ।रा॒ष्ट्रम् । अव॑ । धू॒नु॒ते॒ । ब्र॒ह्म॒ऽज्यस्य॑ ॥१९.७॥
Mantra 8
तद्वै रा॒ष्ट्रमा स्र॑वति॒ नावं॑ भि॒न्नामि॑वोद॒कम्। ब्र॒ह्माणं॒ यत्र॒ हिंस॑न्ति॒ तद्रा॒ष्ट्रं ह॑न्ति दु॒च्छुना॑ ॥
तत् । वै । रा॒ष्ट्रम् । आ । स्र॒व॒ति॒ । नाव॑म् । भि॒न्नाम्ऽइ॑व । उ॒द॒कम् । ब्र॒ह्माण॑म् । यत्र॑ । हिस॑न्ति । तत् । रा॒ष्ट्रम्। ह॒न्ति॒ । दु॒च्छुना॑ ॥१९.८॥
Mantra 9
तं वृ॒क्षा अप॑ सेधन्ति च्छा॒यां नो॒ मोप॑गा॒ इति॑। यो ब्रा॑ह्म॒णस्य॒ सद्धन॑म॒भि ना॑रद॒ मन्य॑ते ॥
तम् । वृ॒क्षा: । अप॑ । से॒ध॒न्ति॒ । छा॒याम् । न॒: । मा । उप॑ । गा॒: । इति॑ ।य: । ब्रा॒ह्म॒णस्य॑ । सत् । धन॑म् । अ॒भि । ना॒र॒द॒ । मन्य॑ते ॥१९.९॥
Mantra 10
वि॒षमे॒तद्दे॒वकृ॑तं॒ राजा॒ वरु॑णोऽब्रवीत्। न ब्रा॑ह्म॒णस्य॒ गां ज॒ग्ध्वा रा॒ष्ट्रे जा॑गार॒ कश्च॒न ॥
वि॒षम् । ए॒तत् । दे॒वऽकृ॑तम् । राजा॑ । वरु॑ण: । अ॒ब्र॒वी॒त् । न । ब्रा॒ह्म॒णस्य॑ । गाम् । ज॒ग्ध्वा । रा॒ष्ट्रे । जा॒गा॒र॒ । क: । च॒न ॥१९.१०॥
Mantra 11
नवै॒व ता न॑व॒तयो॒ या भूमि॒र्व्य॑धूनुत। प्र॒जां हिं॑सि॒त्वा ब्राह्म॑णीमसंभ॒व्यं परा॑भवन् ॥
नव॑ । ए॒व । ता: । न॒व॒तय॑: । या: । भूमि॑: । विऽअ॑धूनुत । प्र॒ऽजाम् । हिं॒सि॒त्वा। ब्राह्म॑णीम् । अ॒स॒म्ऽभ॒व्यम् । परा॑ । अ॒भ॒व॒न् ॥१९.११॥
Mantra 12
यां मृ॒ताया॑नुब॒ध्नन्ति॑ कू॒द्यं॑ पद॒योप॑नीम्। तद्वै ब्र॑ह्मज्य ते दे॒वा उ॑प॒स्तर॑णमब्रुवन् ॥
याम् । मृ॒ताय॑ । अ॒नु॒ऽब॒ध्नन्ति । कू़॒द्य᳡म् । प॒द॒ऽयोप॑नीम् । तत् । वै । ब्र॒ह्म॒ऽज्य॒ । ते॒ । दे॒वा: । उ॒प॒ऽस्तर॑णम् । अ॒ब्रु॒व॒न् ॥१९.१२॥
Mantra 13
अश्रू॑णि॒ कृप॑माणस्य॒ यानि॑ जी॒तस्य॑ वावृ॒तुः। तं वै ब्र॑ह्मज्य ते दे॒वा अ॒पां भा॒गम॑धारयन् ॥
अश्रू॑णि । कृप॑माणस्य । यानि॑ । जी॒तस्य॑ । व॒वृ॒तु: । तम् । वै । ब्र॒ह्म॒ऽज्य॒ । ते॒ । दे॒वा: । अ॒पाम् । भा॒गम् । अ॒धा॒र॒य॒न् ॥१९.१३॥
Mantra 14
येन॑ मृ॒तं स्न॒पय॑न्ति॒ श्मश्रू॑णि॒ येनो॒न्दते॑। तं वै ब्र॑ह्मज्य ते दे॒वा अ॒पां भा॒गम॑धारयन् ॥
येन॑ । मृ॒तम् । स्न॒पय॑न्ति । श्मश्रू॑णि । येन॑ । उ॒न्दते॑ । तम् । वै । ब्र॒ह्म॒ऽज्य॒ । ते॒ । दे॒वा: । अ॒पाम् । भा॒गम् । अ॒धा॒र॒य॒न् ॥१९.१४॥
Mantra 15
न व॒र्षं मै॑त्रावरु॒णं ब्र॑ह्म॒ज्यम॒भि व॑र्षति। नास्मै॒ समि॑तिः कल्पते॒ न मि॒त्रं न॑यते॒ वश॑म् ॥
न । व॒र्षम् । मै॒त्रा॒व॒रु॒णम् । ब्र॒ह्म॒ऽज्यम् । अ॒भि । व॒र्ष॒ति॒ । न । अ॒स्मै॒ । सम्ऽइ॑ति: ।क॒ल्प॒ते॒ । न । मि॒त्रम् । न॒य॒ते॒ । वश॑म् ॥१९.१५॥