Mantra 1
द॒दिर्हि मह्यं॒ वरु॑णो दि॒वः क॒विर्वचो॑भिरु॒ग्रैर्नि रि॑णामि ते वि॒षम्। खा॒तमखा॑तमु॒त स॒क्तम॑ग्रभ॒मिरे॑व॒ धन्व॒न्नि ज॑जास ते वि॒षम् ॥
द॒दि: । हि । मह्य॑म् । वरु॑ण: । दि॒व: । क॒वि: । वच॑:ऽभि: । उ॒ग्रै: । नि । रि॒णा॒मि॒ । ते॒ । वि॒षम् । खा॒तम् । अखा॑तम् । उ॒त । स॒क्तम् । अ॒ग्र॒भ॒म् । इरा॑ऽइव । धन्व॑न् । नि । ज॒जा॒स॒ । ते॒ । वि॒षम् ॥१३.१॥
Mantra 2
यत्ते॒ अपो॑दकं वि॒षं तत्त॑ ए॒तास्व॑ग्रभम्। गृ॒ह्णामि॑ ते मध्य॒ममु॑त्त॒मं रस॑मु॒ताव॒मं भि॒यसा॑ नेश॒दादु॑ ते ॥
यत् । ते॒ । अप॑ऽउदकम् । वि॒षम् । तत् । ते॒ । ए॒तासु॑ । अ॒ग्र॒भ॒म् । गृ॒ह्णामि॑ । ते॒ । म॒ध्य॒मम् । उ॒त्ऽत॒मम् । रस॑म् । उ॒त । अ॒व॒मम् । भि॒यसा॑ । ने॒श॒त् । आत् । ऊं॒ इति॑ । ते॒ ॥१३.२॥
Mantra 3
वृषा॑ मे॒ रवो॒ नभ॑सा॒ न त॑न्य॒तुरु॒ग्रेण॑ ते॒ वच॑सा बाध॒ आदु॑ ते। अ॒हं तम॑स्य॒ नृभि॑रग्रभं॒ रसं॒ तम॑स इव॒ ज्योति॒रुदे॑तु॒ सूर्यः॑ ॥
वृषा॑ । मे॒ । रव॑: । नभ॑सा । न । त॒न्य॒तु: । उ॒ग्रेण॑ । ते॒ । वच॑सा । बा॒धे॒ । आत् ।ऊं॒ इति॑ । ते॒ । अ॒हम् । तम् । अ॒स्य॒ । नृऽभि॑: । अ॒ग्र॒भ॒म् । रस॑म् । तम॑स:ऽइव । ज्योति॑:। उत् । ए॒तु॒ । सूर्य॑: ॥१३.३॥
Mantra 4
चक्षु॑षा ते॒ चक्षु॑र्हन्मि वि॒षेण॑ हन्मि ते वि॒षम्। अहे॑ म्रि॒यस्व॒ मा जी॑वीः प्र॒त्यग॒भ्ये॑तु त्वा वि॒षम् ॥
चक्षु॑षा । ते॒ । चक्षु॑: । ह॒न्मि॒ । वि॒षेण॑ । ह॒न्मि॒ । ते॒ । वि॒षम् । अहे॑ । म्रि॒यस्व॑ । मा । जी॒वी॒: । प्र॒त्यक् । अ॒भि । ए॒तु॒ । त्वा॒ । वि॒षम् ॥१३.४॥
Mantra 5
कैरा॑त॒ पृश्न॒ उप॑तृण्य॒ बभ्र॒ आ मे॑ शृणु॒तासि॑ता॒ अली॑काः। मा मे॒ सख्युः॑ स्ता॒मान॒मपि॑ ष्ठाताश्रा॒वय॑न्तो॒ नि वि॒षे र॑मध्वम् ॥
कैरा॑त । पृश्ने॑ । उप॑ऽतृण्य । बभ्रो॒ इति॑ । आ । मे॒ । शृ॒ण॒त॒ । असि॑ता: । अली॑का: । मा । मे॒ । सख्यु॑: । स्ता॒मान॑म् । अपि॑ । स्था॒त॒ । आ॒ऽश्रा॒वय॑न्त: । नि । वि॒षे । र॒म॒ध्व॒म् । १३.५॥
Mantra 6
अ॑सि॒तस्य॑ तैमा॒तस्य॑ ब॒भ्रोरपो॑दकस्य च। सा॑त्रासा॒हस्या॒हं म॒न्योरव॒ ज्यामि॑व॒ धन्व॑नो॒ वि मु॑ञ्चामि॒ रथाँ॑ इव ॥
अ॒सि॒तस्य॑ । तै॒मा॒तस्य॑ । ब॒भ्रो: । अप॑ऽउदकस्य । च॒ । सा॒त्रा॒ऽस॒हस्य॑ । अ॒हम् । म॒न्यो: । अव॑ । ज्याम्ऽइ॑व । धन्व॑न: । वि । मु॒ञ्चा॒मि॒ । रथा॑न्ऽइव ॥१३.६॥
Mantra 7
आलि॑गी च॒ विलि॑गी च पि॒ता च॑ म॒ता च॑। वि॒द्म वः॑ स॒र्वतो॒ बन्ध्वर॑साः॒ किं क॑रिष्यथ ॥
आऽलि॑गी । च॒ । विऽलि॑गी । च॒ । पि॒ता । च॒ । मा॒ता । च॒ । वि॒द्म । व॒: । स॒र्वत॑: । बन्धु॑। अर॑सा: । किम् । क॒रि॒ष्य॒थ॒ ॥१३.७॥
Mantra 8
उ॑रु॒गूला॑या दुहि॒ता जा॒ता दा॒स्यसि॑क्न्या। प्र॒तङ्कं॑ द॒द्रुषी॑णां॒ सर्वा॑सामर॒सं वि॒षम् ॥
उ॒रु॒ऽगूला॑या: । दु॒हि॒ता । जा॒ता । दा॒सी । असि॑क्न्या । प्र॒ऽतङ्क॑म् । द॒द्रुषी॑णाम् । सर्वा॑साम् । अ॒र॒सम् । वि॒षम् ॥१३.८॥
Mantra 9
क॒र्णा श्वा॒वित्तद॑ब्रवीद्गि॒रेर॑वचरन्ति॒का। याः काश्चे॒माः ख॑नि॒त्रिमा॒स्तासा॑मर॒सत॑मं वि॒षम् ॥
क॒र्णा । श्वा॒वित् । तत् । अ॒ब्र॒वी॒त् । गि॒रे: । अ॒व॒ऽच॒र॒न्ति॒का । या: । का: । च॒ । इ॒मा: । ख॒नि॒त्रिमा॑: । तासा॑म् । अ॒र॒सऽत॑मम् । वि॒षम् ॥१३.९॥
Mantra 10
ता॒बुवं॒ न ता॒बुवं॒ न घेत्त्वम॑सि ता॒बुव॑म्। ता॒बुवे॑नार॒सं वि॒षम् ॥
ता॒बुव॑म् । न । ता॒बुव॑म् । न । घ॒ । इत् । त्वम् । अ॒सि॒ । ता॒बुव॑म् । ता॒बुवे॑न । अ॒र॒सम् । वि॒षम् ॥१३.१०॥
Mantra 11
त॒स्तुवं॒ न त॒स्तुवं॒ न घेत्त्वम॑सि त॒स्तुव॑म्। त॒स्तुवे॑नार॒सं वि॒षम् ॥
त॒स्तुव॑म् । न । त॒स्तुव॑म् । न । घ॒ । इत् । त्वम् । अ॒सि॒ । त॒स्तुव॑म् । त॒स्तुवे॑न । अ॒र॒सम् । वि॒षम् ॥१३.११॥