Mantra 1
ऋध॑ङ्मन्त्रो॒ योनिं॒ य आ॑ब॒भूव॒मृता॑सु॒र्वर्ध॑मानः सु॒जन्मा॑। अद॑ब्धासु॒र्भ्राज॑मा॒नोऽहे॑व त्रि॒तो ध॒र्ता दा॑धार॒ त्रीणि॑ ॥
ऋध॑क्ऽमन्त्र: । योनि॑म् । य: । आ॒ऽब॒भूव॑ । अ॒मृत॑ऽअसु: । वर्ध॑मान: । सु॒ऽजन्मा॑ । अद॑ब्धऽअसु: । भ्राज॑मान:।अहा॑ऽइव । त्रि॒त: । ध॒र्ता । दा॒धा॒र॒ । त्रीणि॑ ॥१.१॥
Mantra 2
आ यो धर्मा॑णि प्रथ॒मः स॒साद॒ ततो॒ वपूं॑षि कृणुषे पु॒रूणि॑। धा॒स्युर्योनिं॑ प्रथ॒म आ वि॑वे॒शा यो वाच॒मनु॑दितां चि॒केत॑ ॥
आ । य: । धर्मा॑णि । प्र॒थ॒म: । स॒साद॑ । तत॑: । वपूं॑षि । कृ॒णु॒षे॒ । पु॒रूणि॑ । धा॒स्यु: ।योनि॑म् । प्र॒थ॒म: । आ । वि॒वे॒श॒। आ । य: । वाच॑म् । अनु॑दिताम् । चि॒केत॑॥१.२॥
Mantra 3
यस्ते॒ शोका॑य त॒न्वं॑ रि॒रेच॒ क्षर॒द्धिर॑ण्यं॒ शुच॒योऽनु॒ स्वाः। अत्रा॑ दधेते अ॒मृता॑नि॒ नामा॒स्मे वस्त्रा॑णि॒ विश॒ एर॑यन्ताम् ॥
य: । ते॒ । शोका॑य । त॒न्व᳡म् । रि॒रेच॑ । क्षर॑त् । हिर॑ण्यम् । शुच॑य: । अनु॑ । स्वा: । अत्र॑ । द॒धे॒ते॒ इति॑ ।अ॒मृता॑नि। नाम॑ । अ॒स्मे इति॑ । वस्त्रा॑णि । विश॑: । आ । ई॒र॒य॒न्ता॒म् ॥१.३॥
Mantra 4
प्र यदे॒ते प्र॑त॒रं पू॒र्व्यं गुः सदः॑सद आ॒तिष्ठ॑न्तो अजु॒र्यम्। क॒विः शु॒षस्य॑ मा॒तरा॑ रिहा॒णे जा॒म्यै धुर्यं॒ पति॑मेरयेथाम् ॥
प्र । यत् । ए॒ते । प्रऽत॒रम् । पू॒र्व्यम् । गु: । सद॑:ऽसद: । आ॒ऽतिष्ठ॑न्त: । अ॒जु॒र्यम् । क॒वि: । शु॒षस्य॑ । मा॒तरा॑ । रि॒हा॒णे इति॑ । जा॒म्यै । धुर्य॑म् । पति॑म् । आ । ई॒र॒ये॒था॒म् ॥१.४॥
Mantra 5
तदू॒ षु ते॑ म॒हत्पृ॑थुज्म॒न्नमः॑ क॒विः काव्ये॑ना कृणोमि। यत्स॒म्यञ्चा॑वभि॒यन्ता॑व॒भि क्षामत्रा॑ म॒ही रोध॑चक्रे वावृ॒धेते॑ ॥
तत् । ऊं॒ इति॑ । सु । ते॒ । म॒हत् । पृ॒थु॒ऽज्म॒न् । नम॑: । क॒वि: । काव्ये॑न । कृ॒णो॒मि । यत् । स॒म्यञ्चौ॑ । अ॒भि॒ऽयन्तौ॑ । अ॒भि । क्षाम् । अत्र॑ ।म॒ही इति॑ । रोध॑चक्रे॒ इति॒ रोध॑ऽचक्रे । व॒वृ॒धेते॒ इति॑॥१.५॥
Mantra 6
स॒प्त म॒र्यादाः॑ क॒वय॑स्ततक्षु॒स्तासा॒मिदेका॑म॒भ्यं॑हु॒रो गा॑त्। आ॒योर्ह॑ स्क॒म्भ उ॑प॒मस्य॑ नी॒डे प॒थां वि॑स॒र्गे ध॒रुणे॑षु तस्थौ ॥
स॒प्त । म॒र्यादा॑: । क॒वय॑: । त॒त॒क्षु॒: । तासा॑म् । इत् । एका॑म् । अ॒भि । अं॒हु॒र: । गा॒त् । आ॒यो: । ह॒ । स्क॒म्भ: । उ॒प॒मस्य॑ । नी॒डे । प॒थाम् । वि॒ऽस॒र्गे । ध॒रुणे॑षु । त॒स्थौ॒ ॥१.६॥
Mantra 7
उ॒तामृता॑सु॒र्व्रत॑ एमि कृ॒ण्वन्नसु॑रा॒त्मा त॒न्वस्तत्सु॒मद्गुः॑। उ॒त वा॑ श॒क्रो रत्नं॒ दधा॑त्यू॒र्जया॑ वा॒ यत्सच॑ते हवि॒र्दाः ॥
उ॒त । अ॒मृत॑ऽअसु: । व्रत॑: । ए॒मि॒ । कृ॒ण्वन् । असु॑: । आ॒त्मा । त॒न्व᳡: । तत् । सु॒मत्ऽगु॑: ।उ॒त । वा॒ । श॒क्र: । रत्न॑म् । दधा॑ति । ऊ॒र्जया॑ । वा॒ । यत् । सच॑ते । ह॒वि॒:ऽदा: ॥१.७॥
Mantra 8
उ॒त पु॒त्रः पि॒तरं॑ क्ष॒त्रमी॑डे ज्ये॒ष्ठं म॒र्याद॑मह्वयन्त्स्व॒स्तये॑। दर्श॒न्नु ता व॑रुण॒ यास्ते॑ वि॒ष्ठा आ॒वर्व्र॑ततः कृणवो॒ वपूं॑षि ॥
उ॒त । पु॒त्र: । पि॒तर॑म् । क्ष॒त्रम् । ई॒डे॒ । ज्ये॒ष्ठम् । म॒र्याद॑म् । अ॒ह्व॒य॒न् । स्व॒स्तये॑ । दर्श॑न् । नु । ता: । व॒रु॒ण॒ । या:। ते॒ । वि॒ऽस्था: । आ॒ऽवर्व्र॑तत: । कृ॒ण॒व॒: । वपूं॑षि ॥१.८॥
Mantra 9
अ॒र्धम॒र्धेन॒ पय॑सा पृणक्ष्य॒र्धेन॑ शुष्म वर्धसे अमुर। अविं॑ वृधाम श॒ग्मियं॒ सखा॑यं॒ वरु॑णं पु॒त्रमदि॑त्या इषि॒रम्। क॑विश॒स्तान्य॑स्मै॒ वपूं॑ष्यवोचाम॒ रोद॑सी सत्य॒वाचा॑ ॥
अ॒र्धम् । अ॒र्धेन॑ । पय॑सा । पृ॒ण॒क्षि॒ । अ॒र्धेन॑ । शु॒ष्म॒ । व॒र्ध॒से॒ । अ॒मु॒र॒ । अवि॑म् । वृ॒धा॒म॒ । श॒ग्मिय॑म् ।सखा॑यम् । वरु॑णम् । पु॒त्रम् । अदि॑त्या: । इ॒षि॒रन् । क॒वि॒ऽश॒स्तानि॑ । अ॒स्मै॒ । वपूं॑षि । अ॒वो॒चा॒म॒ । रोद॑सी॒ इति॑ । स॒त्य॒ऽवाचा॑ ॥१.९॥