Mantra with Swara
अ॑र॒सं प्रा॒च्यं॑ वि॒षम॑र॒सं यदु॑दी॒च्य॑म्। अथे॒दम॑धरा॒च्यं॑ कर॒म्भेण॒ वि क॑ल्पते ॥
अ॒र॒सम् । प्रा॒च्य᳡म् । वि॒षम् । अ॒र॒सम् । यत् । उ॒दी॒च्य᳡म् । अथ॑ । इ॒दम् । अ॒ध॒रा॒च्य᳡म् । क॒र॒म्भेण॑ । वि । क॒ल्प॒ते॒ ॥७.२॥
Mantra without Swara
अरसं प्राच्यं विषमरसं यदुदीच्यम्। अथेदमधराच्यं करम्भेण वि कल्पते ॥
अरसम् । प्राच्यम् । विषम् । अरसम् । यत् । उदीच्यम् । अथ । इदम् । अधराच्यम् । करम्भेण । वि । कल्पते ॥७.२॥
