Mantra 1
ब्रा॑ह्म॒णो ज॑ज्ञे प्रथ॒मो दश॑शीर्षो॒ दशा॑स्यः। स सोमं॑ प्रथ॒मः प॑पौ॒ स च॑कारार॒सं वि॒षम् ॥
ब्रा॒ह्म॒ण: । ज॒ज्ञे॒ । प्र॒थ॒म: । दश॑ऽशीर्ष: । दश॑ऽआस्य: । स: । सोम॑म् । प्र॒थ॒म: । प॒पौ॒ । स: । च॒का॒र॒ । अ॒र॒सम् । वि॒षम् ॥६.१॥
Mantra 2
याव॑ती॒ द्यावा॑पृथि॒वी व॑रि॒म्णा याव॑त्स॒प्त सिन्ध॑वो वितष्ठि॒रे। वाचं॑ वि॒षस्य॒ दूष॑णीं॒ तामि॒तो निर॑वादिषम् ॥
याव॑ती॒ । इति॑ । द्यावा॑पृथि॒वी इति॑ । व॒रि॒म्णा । याव॑त् । स॒प्त । सिन्ध॑व: । वि॒ऽत॒स्थि॒रे । वाच॑म् । वि॒षस्य॑ । दूष॑णीम् । ताम् । इ॒त: । नि:। अ॒वा॒दि॒ष॒म् ॥६.२॥
Mantra 3
सु॑प॒र्णस्त्वा॑ ग॒रुत्मा॒न्विष॑ प्रथ॒ममा॑वयत्। नामी॑मदो॒ नारू॑रुप उ॒तास्मा॑ अभवः पि॒तुः ॥
सु॒ऽप॒र्ण: । त्वा॒ । ग॒रुत्मा॑न् । विष॑ । प्र॒थ॒मम् । आ॒व॒य॒त् । न । अ॒मी॒म॒द॒: । न । अ॒रू॒रु॒प॒: । उ॒त । अ॒स्मै॒ । अ॒भ॒व॒: । पि॒तु: ॥६.३॥
Mantra 4
यस्त॒ आस्य॒त्पञ्चा॑ङ्गुरिर्व॒क्राच्चि॒दधि॒ धन्व॑नः। अ॑पस्क॒म्भस्य॑ श॒ल्यान्निर॑वोचम॒हं वि॒षम् ॥
य: । ते॒ । आस्य॑त् । पञ्च॑ऽअङ्गुरि: । व॒क्रात् । चि॒त् । अधि॑ । धन्व॑न: । अ॒प॒ऽस्क॒म्भस्य॑ । श॒ल्यात् । नि: । अ॒वो॒च॒म् । अ॒हम् । वि॒षम् ॥६.४॥
Mantra 5
श॒ल्याद्वि॒षं निर॑वोचं॒ प्राञ्ज॑नादु॒त प॑र्ण॒धेः। अ॑पा॒ष्ठाच्छृङ्गा॒त्कुल्म॑ला॒न्निर॑वोचम॒हं वि॒षम् ॥
श॒ल्यात् । वि॒षम् । नि: । अ॒वो॒च॒म् । प्र॒ऽअञ्ज॑नात् । उ॒त । प॒र्ण॒ऽधे: । अ॒पा॒ष्ठात् । शृङ्गा॑त् । कुल्म॑लात् । नि: । अ॒वो॒च॒म् । अ॒हम् । वि॒षम् ॥६.५॥
Mantra 6
अ॑र॒सस्त॑ इषो श॒ल्योऽथो॑ ते अर॒सं वि॒षम्। उ॒तार॒सस्य॑ वृ॒क्षस्य॒ धनु॑ष्टे अरसार॒सम् ॥
अ॒र॒स: । ते॒ । इ॒षो॒ इति॑ । श॒ल्य: । अथो॒ इति॑ । ते॒ । अ॒र॒सम् । वि॒षम् । उ॒त । अ॒र॒सस्य॑ । वृ॒क्षस्य॑ । धनु॑: । ते॒ । अ॒र॒स॒ । अ॒र॒सम् ॥६.६॥
Mantra 7
ये अपी॑ष॒न्ये अदि॑ह॒न्य आस्य॒न्ये अ॒वासृ॑जन्। सर्वे॑ ते॒ वध्र॑यः कृ॒ता वध्रि॑र्विषगि॒रिः कृ॒तः ॥
ये । अपी॑षन् । ये । अदि॑हन् । ये । आस्य॑न् । ये । अ॒व॒ऽअसृ॑जन् । सर्वे॑ । ते । वध्र॑य: । कृ॒ता: । वध्रि॑: । वि॒ष॒ऽगि॒रि: । कृ॒त: ॥६.७॥
Mantra 8
वध्र॑यस्ते खनि॒तारो॒ वध्रि॒स्त्वम॑स्योषधे। वध्रिः॒ स पर्व॑तो गि॒रिर्यतो॑ जा॒तमि॒दं वि॒षम् ॥
वध्र॑य: । ते॒ । ख॒नि॒तार॑: । वध्रि॑: । त्वम् । अ॒सि॒ । ओ॒ष॒धे॒ । वध्रि॑: । स: । पर्व॑त: । गि॒रि: । यत॑: । जा॒तम् । इ॒दम् । वि॒षम् ॥६.८॥