Mantra with Swara
अ॒न्तरि॑क्षेण स॒ह वा॑जिनीवन्क॒र्कीं व॒त्सामि॒ह र॑क्ष वाजिन्। इ॒मे ते॑ स्तो॒का ब॑हु॒ला एह्य॒र्वाङि॒यं ते॑ क॒र्कीह ते॒ मनो॑ऽस्तु ॥
अ॒न्तरि॑क्षेण । स॒ह । वा॒जि॒नी॒ऽव॒न् । क॒र्कीम् । व॒त्साम् । इ॒ह । र॒क्ष॒ । वा॒जि॒न् । इ॒मे । ते॒ । स्तो॒का: । ब॒हु॒ला: । आ । इ॒हि॒ । अ॒र्वाङ् । इ॒यम् । ते॒ । क॒र्की । इ॒ह । ते॒ । मन॑: । अ॒स्तु॒ ॥३८.६॥
Mantra without Swara
अन्तरिक्षेण सह वाजिनीवन्कर्कीं वत्सामिह रक्ष वाजिन्। इमे ते स्तोका बहुला एह्यर्वाङियं ते कर्कीह ते मनोऽस्तु ॥
अन्तरिक्षेण । सह । वाजिनीऽवन् । कर्कीम् । वत्साम् । इह । रक्ष । वाजिन् । इमे । ते । स्तोका: । बहुला: । आ । इहि । अर्वाङ् । इयम् । ते । कर्की । इह । ते । मन: । अस्तु ॥३८.६॥
