Mantra 1
उ॑द्भिन्द॒तीं सं॒जय॑न्तीमप्स॒रां सा॑धुदे॒विनी॑म्। ग्लहे॑ कृ॒तानि॑ कृण्वा॒नाम॑प्स॒रां तामि॒ह हु॑वे ॥
उ॒त्ऽभि॒न्द॒तीम् । स॒म्ऽजय॑न्तीम् । अ॒प्स॒राम् । सा॒धु॒ऽदे॒विनी॑म् । ग्लहे॑ । कृ॒तानि॑ । कृ॒ण्वा॒नाम् । अ॒प्स॒राम् । ताम् । इ॒ह । हु॒वे॒ ॥३८.१॥
Mantra 2
वि॑चिन्व॒तीमा॑कि॒रन्ती॑मप्स॒रां सा॑धुदे॒विनी॑म्। ग्लहे॑ कृ॒तानि॑ गृह्णा॒नाम॑प्स॒रां तामि॒ह हु॑वे ॥
वि॒ऽचि॒न्व॒तीम् । आ॒ऽकि॒रन्ती॑म् । अ॒प्स॒राम् । सा॒धु॒ऽदे॒विनी॑म् । ग्लहे॑ । कृ॒तानि॑ । गृ॒ह्णा॒नाम् । अ॒प्स॒राम् । ताम् । इ॒ह । हु॒वे॒ ॥३८.२॥
Mantra 3
यायैः॑ परि॒नृत्य॑त्या॒ददा॑ना कृ॒तं ग्लहा॑त्। सा नः॑ कृ॒तानि॑ सीष॒ती प्र॒हामा॑प्नोतु मा॒यया॑। सा नः॒ पय॑स्व॒त्यैतु॒ मा नो॑ जैषुरि॒दं धन॑म् ॥
या । अयै॑: । प॒रि॒ऽनृत्य॑ति । आ॒ऽददा॑ना । कृ॒तम् । ग्लहा॑त् । सा । न॒: । कृ॒तानि॑ । सी॒ष॒ती । प्र॒ऽहाम् । आ॒प्नो॒तु॒ । मा॒यया॑ । सा । न॒: । पय॑स्वती । आ । ए॒तु॒ । मा । न॒: । जै॒षु॒ । इ॒दम् । धन॑म् ॥३८.३॥
Mantra 4
या अ॒क्षेषु॑ प्र॒मोद॑न्ते॒ शुचं॒ क्रोधं॑ च॒ बिभ्र॑ती। आ॑न॒न्दिनीं॑ प्रमो॒दिनी॑मप्स॒रां तामि॒ह हु॑वे ॥
या: । अ॒क्षेषु॑ । प्र॒ऽमोद॑न्ते । शुच॑म् । क्रोध॑म् । च॒ । बिभ्र॑ती । आ॒ऽन॒न्दिनी॑म् । प्र॒ऽमो॒दिनी॑म् । अ॒प्स॒राम् । ताम् । इ॒ह । हु॒वे॒ ॥३८.४॥
Mantra 5
सूर्य॑स्य र॒श्मीननु॒ याः स॒ञ्चर॑न्ति॒ मरी॑चीर्वा॒ या अ॑नुस॒ञ्चर॑न्ति। यासा॑मृष॒भो दू॑र॒तो वा॒जिनी॑वान्त्स॒द्यः सर्वा॑न्लो॒कान्प॒र्येति॒ रक्ष॑न्। स न॒ ऐतु॒ होम॑मि॒मं जु॑षाणो॑३ऽन्तरि॑क्षेण स॒ह वा॒जिनी॑वान् ॥
सूर्य॑स्य । र॒श्मीन् । अनु॑ । या: । स॒म्ऽचर॑न्ति । मरी॑ची: । वा॒ । या: । अ॒नु॒ऽसं॒चर॑न्ति । यासा॑म् । ऋ॒ष॒भ: । दू॒र॒त: । वा॒जिनी॑ऽवान् । स॒द्य: । सर्वा॑न् । लो॒कान् । प॒रि॒ऽएति॑ । रक्ष॑न् । स: । न॒: । आ । ए॒तु॒ । होम॑म् । इ॒मम् । जु॒षा॒ण: । अ॒न्तरि॑क्षेण । स॒ह । वा॒जिनी॑ऽवान् ॥३८.५॥
Mantra 6
अ॒न्तरि॑क्षेण स॒ह वा॑जिनीवन्क॒र्कीं व॒त्सामि॒ह र॑क्ष वाजिन्। इ॒मे ते॑ स्तो॒का ब॑हु॒ला एह्य॒र्वाङि॒यं ते॑ क॒र्कीह ते॒ मनो॑ऽस्तु ॥
अ॒न्तरि॑क्षेण । स॒ह । वा॒जि॒नी॒ऽव॒न् । क॒र्कीम् । व॒त्साम् । इ॒ह । र॒क्ष॒ । वा॒जि॒न् । इ॒मे । ते॒ । स्तो॒का: । ब॒हु॒ला: । आ । इ॒हि॒ । अ॒र्वाङ् । इ॒यम् । ते॒ । क॒र्की । इ॒ह । ते॒ । मन॑: । अ॒स्तु॒ ॥३८.६॥
Mantra 7
अ॒न्तरि॑क्षेण स॒ह वा॑जिनीवन्क॒र्कीं व॒त्सामि॒ह र॑क्ष वाजिन्। अ॒यं घा॒सो अ॒यं व्र॒ज इ॒ह व॒त्सां नि ब॑ध्नीमः। य॑थाना॒म व॑ ईश्महे॒ स्वाहा॑ ॥
अ॒न्तरि॑क्षेण । स॒ह । वा॒जि॒नी॒ऽव॒न् । क॒र्कीम् । व॒त्साम् । इ॒ह । र॒क्ष॒ । वा॒जि॒न् । अ॒यम् । घा॒स: । अ॒यम् । व्र॒ज: । इ॒ह । व॒त्साम् । नि । ब॒ध्नी॒म॒: । य॒था॒ऽना॒म् । व॒: । ई॒श्म॒हे॒ । स्वाहा॑ ॥३८.७॥