Mantra 1
त्वया॒ पूर्व॒मथ॑र्वाणो ज॒घ्नू रक्षां॑स्योषधे। त्वया॑ जघान क॒श्यप॒स्त्वया॒ कण्वो॑ अ॒गस्त्यः॑ ॥
त्वया॑ । पूर्व॑म् । अथ॑र्वाण: । ज॒घ्नु: । रक्षां॑सि । ओ॒ष॒धे॒ । त्वया॑ । ज॒घा॒न॒ । क॒श्यप॑: । त्वया॑ । कण्व॑: । अ॒गस्त्य॑: ॥३७.१॥
Mantra 2
त्वया॑ व॒यम॑प्स॒रसो॑ गन्ध॒र्वांश्चा॑तयामहे। अज॑शृ॒ङ्ग्यज॒ रक्षः॒ सर्वा॑न् ग॒न्धेन॑ नाशय ॥
त्वया॑ । व॒यम् । अ॒प्स॒रस॑: । ग॒न्ध॒र्वान् । चा॒त॒या॒म॒हे॒ । अज॑ऽशृङ्गि । अज॑ । रक्ष॑: । सर्वा॑न् । ग॒न्धेन॑ । ना॒श॒य॒ ॥३७.२॥
Mantra 3
न॒दीं य॑न्त्वप्स॒रसो॒ऽपां ता॒रम॑वश्व॒सम्। गु॑ल्गु॒लूः पीला॑ नल॒द्यौ॒क्षग॑न्धिः प्रमन्द॒नी। तत्परे॑ताप्सरसः॒ प्रति॑बुद्धा अभूतन ॥
न॒दीम् । य॒न्तु॒ । अ॒प्स॒रस॑: । अ॒पाम् । ता॒रम् । अ॒व॒ऽश्व॒सम् । गु॒ल्गु॒लू: । पीला॑ । न॒ल॒दी ।औ॒क्षऽग॑न्धि: । प्र॒ऽम॒न्द॒नी । तत् । परा॑ । इ॒त॒ । अ॒प्स॒र॒स॒: । प्रति॑ऽबुध्दा: । अ॒भू॒त॒न॒ ॥३७.३॥
Mantra 4
यत्रा॑श्व॒त्था न्य॒ग्रोधा॑ महावृ॒क्षाः शि॑ख॒ण्डिनः॑। तत्परे॑ताप्सरसः॒ प्रति॑बुद्धा अभूतन ॥
यत्र॑ । अ॒श्व॒त्था: । न्य॒ग्रोधा॑: । म॒हा॒ऽवृ॒क्षा: । शि॒ख॒ण्डिन॑: । तत् । परा॑ । इ॒त॒ । अ॒प्स॒र॒स॒: । प्रति॑ऽबुध्दा: । अ॒भू॒त॒न॒ ॥३७.४॥
Mantra 5
यत्र॑ वः प्रे॒ङ्खा हरि॑ता॒ अर्जु॑ना उ॒त यत्रा॑घा॒टाः क॑र्क॒र्यः॑ सं॒वद॑न्ति। तत्परे॑ताप्सरसः॒ प्रति॑बुद्धा अभूतन ॥
यत्र॑ । व॒: । प्र॒ऽई॒ङ्खा: । हरि॑ता: । अर्जु॑ना: । उ॒त । यत्र॑ । आ॒घा॒टा: । क॒र्क॒र्य᳡: । स॒म्ऽवद॑न्ति । तत् । परा॑ । इ॒त॒ । अ॒प्स॒र॒स॒: । प्रति॑ऽबुध्दा: । अ॒भू॒त॒न॒ ॥३७.५॥
Mantra 6
एयम॑ग॒न्नोष॑धीनां वी॒रुधां॑ वी॒र्या॑वती। अ॑जशृ॒ङ्ग्य॑राट॒की ती॑क्ष्णशृ॒ङ्गी व्यृ॑षतु ॥
आ । इ॒यम् । अ॒ग॒न् । ओष॑धीनाम् । वी॒रुधा॑म् । वी॒र्य᳡ऽवती । अ॒ज॒ऽशृ॒ङ्गी । अ॒रा॒ट॒की । ती॒क्ष्ण॒ऽशृ॒ङ्गी । वि । ऋ॒ष॒तु॒ ॥३७.६॥
Mantra 7
आ॒नृत्य॑तः शिख॒ण्डिनो॑ गन्ध॒र्वस्या॑प्सराप॒तेः। भि॒नद्मि॑ मु॒ष्कावपि॑ यामि॒ शेपः॑ ॥
आ॒ऽनृत्य॑त: । शि॒ख॒ण्डिन॑: । ग॒न्ध॒र्वस्य॑ । अ॒प्स॒रा॒ऽप॒ते: । भि॒नद्मि॑ । मु॒ष्कौ । अपि॑ । या॒मि॒ । शेप॑: ॥३७.७॥
Mantra 8
भी॒मा इन्द्र॑स्य हे॒तयः॑ श॒तं ऋ॒ष्टीर॑य॒स्मयीः॑। ताभि॑र्हविर॒दान्ग॑न्ध॒र्वान॑वका॒दान्व्यृ॑षतु ॥
भी॒मा: । इन्द्र॑स्य । हे॒तय॑: । श॒तम् । ऋ॒ष्टी: । अ॒य॒स्मयी॑: । ताभि॑: । ह॒वि॒:ऽअ॒दान् । ग॒न्ध॒र्वान् । अ॒व॒का॒ऽअ॒दान् । वि । ऋ॒ष॒तु॒ ॥३७.८॥
Mantra 9
भी॒मा इन्द्र॑स्य हे॒तयः॑ श॒तं ऋ॒ष्टीर्हि॑र॒ण्ययीः॑। ताभि॑र्हविर॒दान्ग॑न्ध॒र्वान॑वका॒दान्व्यृ॑षतु ॥
भी॒मा: । इन्द्र॑स्य । हे॒तय॑: । श॒तम् । ऋ॒ष्टी: । हि॒र॒ण्ययी॑: ।ताभि॑: । ह॒वि॒:ऽअ॒दान् । ग॒न्ध॒र्वान् । अ॒व॒का॒ऽअ॒दान् । वि । ऋ॒ष॒तु॒ ॥३७.९॥
Mantra 10
अ॑वका॒दान॑भिशो॒चान॒प्सु ज्यो॑तय माम॒कान्। पि॑शा॒चान्त्सर्वा॑नोषधे॒ प्र मृ॑णीहि॒ सह॑स्व च ॥
अ॒व॒का॒ऽअ॒दान् । अ॒भि॒ऽशो॒चान् । अ॒प्ऽसु । ज्यो॒त॒य॒ । मा॒म॒कान् । पि॒शा॒चान् । सर्वा॑न् । ओ॒ष॒धे॒ । प्र । मृ॒णी॒हि॒ । सह॑स्व । च॒ ॥३७.१०॥
Mantra 11
श्वेवैकः॑ क॒पिरि॒वैकः॑ कुमा॒रः स॑र्वकेश॒कः। प्रि॒यो दृ॒श इ॑व भू॒त्वा ग॑न्ध॒र्वः स॑चते॒ स्त्रिय॑स्तमि॒तो ना॑शयामसि॒ ब्रह्म॑णा वी॒र्या॑वता ॥
श्वाऽइ॑व । एक॑: । क॒पि:ऽइ॑व । एक॑: । कु॒मा॒र: । स॒र्व॒ऽके॒श॒क: । प्रि॒य: । दृ॒शेऽइ॑व । भू॒त्वा ।ग॒न्ध॒र्व: । स॒च॒ते॒ । स्त्रिय॑: । तम् । इ॒त: । ना॒श॒या॒म॒सि॒ । ब्रह्म॑णा । वी॒र्य᳡वता ॥३७.११॥
Mantra 12
जा॒या इद्वो॑ अप्स॒रसो॒ गन्ध॑र्वाः॒ पत॑यो यू॒यम्। अप॑ धावतामर्त्या॒ मर्त्या॒न्मा स॑चध्वम् ॥
जा॒या: । इत् । व॒: । अ॒प्स॒रस॑: । गन्ध॑र्वा: । पत॑य: । यू॒यम् ।अप॑ । धा॒व॒त॒ । अ॒म॒र्त्या॒: । मर्त्या॑न् । मा । स॒च॒ध्व॒म् ॥३७.१२॥