Mantra with Swara
वि॑जेष॒कृदिन्द्र॑ इवानवब्र॒वोस्माकं॑ मन्यो अधि॒पा भ॑वे॒ह। प्रि॒यं ते॒ नाम॑ सहुरे गृणीमसि वि॒द्मा तमुत्सं॒ यत॑ आब॒भूथ॑ ॥
वि॒जे॒ष॒ऽकृत् । इन्द्र॑:ऽइव । अ॒न॒व॒ऽब्र॒व: । अ॒स्माक॑म् । म॒न्यो॒ इति॑ । अ॒धि॒ऽपा: । भ॒व॒ । इ॒ह । प्रि॒यम् । ते॒ । नाम॑ । स॒हु॒रे॒ । गृ॒णी॒म॒सि॒ । वि॒द्म । तम् । उत्स॑म् । यत॑: । आ॒ऽब॒भूथ॑ ॥३१.५॥
Mantra without Swara
विजेषकृदिन्द्र इवानवब्रवोस्माकं मन्यो अधिपा भवेह। प्रियं ते नाम सहुरे गृणीमसि विद्मा तमुत्सं यत आबभूथ ॥
विजेषऽकृत् । इन्द्र:ऽइव । अनवऽब्रव: । अस्माकम् । मन्यो इति । अधिऽपा: । भव । इह । प्रियम् । ते । नाम । सहुरे । गृणीमसि । विद्म । तम् । उत्सम् । यत: । आऽबभूथ ॥३१.५॥
