Mantra with Swara
यौ भ॒रद्वा॑ज॒मव॑थो॒ यौ गवि॑ष्ठिरं वि॒श्वामि॑त्रं वरुण मित्र॒ कुत्स॑म्। यौ क॒क्षीव॑न्त॒मव॑थः॒ प्रोत कण्वं॒ तौ नो॑ मुञ्चत॒मंह॑सः ॥
यौ । भ॒रत्ऽवा॑जम् । अव॑थ: । यौ । गवि॑ष्ठिरम् । वि॒श्वामि॑त्रम् । व॒रु॒ण॒ । मि॒त्र॒ । कुत्स॑म् । यौ । क॒क्षीव॑न्तम् । अव॑थ: । प्र । उ॒त । कण्व॑म् । तौ । न॒: । मु॒ञ्च॒त॒म् । अंह॑स: ॥२९.५॥
Mantra without Swara
यौ भरद्वाजमवथो यौ गविष्ठिरं विश्वामित्रं वरुण मित्र कुत्सम्। यौ कक्षीवन्तमवथः प्रोत कण्वं तौ नो मुञ्चतमंहसः ॥
यौ । भरत्ऽवाजम् । अवथ: । यौ । गविष्ठिरम् । विश्वामित्रम् । वरुण । मित्र । कुत्सम् । यौ । कक्षीवन्तम् । अवथ: । प्र । उत । कण्वम् । तौ । न: । मुञ्चतम् । अंहस: ॥२९.५॥
