Available Bhashyas

Bhashyas

Choose the bhashyas to show on this mantra page.

Atharvaveda - Mantra 3

Atharvaveda 4/26/3

40 Sukta
7 Mantra
4/26/3
Devata- द्यावापृथिवी Rishi- मृगारः Chhanda- त्रिष्टुप् Suktam- पापमोचन सूक्त
Mantra with Swara
अ॑सन्ता॒पे सु॒तप॑सौ हुवे॒ऽहमु॒र्वी ग॑म्भी॒रे क॒विभि॑र्नम॒स्ये॑। द्यावा॑पृथिवी॒ भव॑तं मे स्यो॒ने ते नो॑ मुञ्चत॒मंह॑सः ॥

अ॒सं॒ता॒पे इत्य॑स॒म्ऽता॒पे । सु॒ऽतप॑सौ । हु॒वे॒ । अ॒हम् । उ॒र्वी इति॑ । ग॒म्भी॒रे इति॑ । क॒विऽभि॑: । न॒म॒स्ये॒३॑ इति॑ । द्यावा॑पृथिवी॒ इति॑ । भव॑तम् । मे॒ । स्यो॒ने इति॑ । ते इति॑ । न॒: । मु॒ञ्च॒त॒म् । अंह॑स: ॥२६.३॥

Mantra without Swara
असन्तापे सुतपसौ हुवेऽहमुर्वी गम्भीरे कविभिर्नमस्ये। द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ॥

असंतापे इत्यसम्ऽतापे । सुऽतपसौ । हुवे । अहम् । उर्वी इति । गम्भीरे इति । कविऽभि: । नमस्ये३ इति । द्यावापृथिवी इति । भवतम् । मे । स्योने इति । ते इति । न: । मुञ्चतम् । अंहस: ॥२६.३॥

Available Bhashyas

1 Bhashyas
Meaning
१. (असन्तापे) = सब प्राणियों के सन्ताप को हरनेवाले, सन्ताप से रहित (सतपसौ) = खब दीप्त. तेजस्वी (उर्वी) = विस्तीण गम्भीर-गाम्भीर्य से युक्त, अर्थात् 'ये ऐसे हैं' इसप्रकार जिनका पूर्णरूप से ज्ञान होना सम्भव नहीं (कविभि:) = क्रान्तदर्शी ज्ञानियों से (नमस्ये) = नमस्कार के योग्य इन द्यावापृथिवी को (आहम्) = मैं (हुवे) = रक्षा के लिए प्रार्थित करता हूँ। २. ये (द्यावापृथिवी) = युलोक व पृथिवीलोक (मे) = मेरे लिए (स्योने) = सुख देनेवाले (भवतम्) = हों और (ते) = वे दोनों (न:) = हमें (अंहस:) = पाप से (मुञ्चतम्) = मुक्त करें।
Essence
ये द्यावापृथिवी सन्ताप से रहित, दीप्त, विशाल व रहस्यमय हैं, ये हमारे लिए सुखद हों और हमें पापों से मुक्त करें।
Subject
'असन्तापे सुतपसौ' द्यावापृथिवी