Mantra with Swara
प्र सु॑म॒तिं स॑वितर्वाय ऊ॒तये॒ मह॑स्वन्तं मत्स॒रं मा॑दयाथः। अ॒र्वाग्वा॒मस्य॑ प्र॒वतो॒ नि य॑च्छतं॒ तौ नो॑ मुञ्चत॒मंह॑सः ॥
प्र । सु॒ऽम॒तिम् । स॒वि॒त॒: । वा॒यो॒ इति॑ । ऊ॒तये॑ । मह॑स्वन्तम् । म॒त्स॒रम् । मा॒द॒या॒थ॒: ।अ॒र्वाक् । वा॒मस्य॑ । प्र॒ऽवत॑: । नि । य॒च्छ॒त॒म् । तौ । न॒: । मु॒ञ्च॒त॒म् । अंह॑स: ॥२५.६॥
Mantra without Swara
प्र सुमतिं सवितर्वाय ऊतये महस्वन्तं मत्सरं मादयाथः। अर्वाग्वामस्य प्रवतो नि यच्छतं तौ नो मुञ्चतमंहसः ॥
प्र । सुऽमतिम् । सवित: । वायो इति । ऊतये । महस्वन्तम् । मत्सरम् । मादयाथ: ।अर्वाक् । वामस्य । प्रऽवत: । नि । यच्छतम् । तौ । न: । मुञ्चतम् । अंहस: ॥२५.६॥
