Available Bhashyas

Bhashyas

Choose the bhashyas to show on this mantra page.

Atharvaveda - Mantra 5

Atharvaveda 4/22/5

40 Sukta
7 Mantra
4/22/5
Devata- इन्द्रः, क्षत्रियो राजा Rishi- वसिष्ठः, अथर्वा वा Chhanda- त्रिष्टुप् Suktam- अमित्रक्षयण सूक्त
Mantra with Swara
यु॒नज्मि॑ त उत्त॒राव॑न्त॒मिन्द्रं॒ येन॒ जय॑न्ति॒ न प॑रा॒जय॑न्ते। यस्त्वा॒ कर॑देकवृ॒षं जना॑नामु॒त राज्ञा॑मुत्त॒मं मा॑न॒वाना॑म् ॥

यु॒नज्मि॑ । ते॒ । उ॒त्त॒रऽव॑न्तम् । इन्द्र॑म् । येन॑ । जय॑न्ति । न । प॒रा॒ऽजय॑न्ते । य: । त्वा॒ । कर॑त् । ए॒क॒ऽवृ॒षम् । जना॑नाम् । उ॒त । राज्ञा॑म् । उ॒त्ऽत॒मम् । मा॒न॒वाना॑म्॥२२.५॥

Mantra without Swara
युनज्मि त उत्तरावन्तमिन्द्रं येन जयन्ति न पराजयन्ते। यस्त्वा करदेकवृषं जनानामुत राज्ञामुत्तमं मानवानाम् ॥

युनज्मि । ते । उत्तरऽवन्तम् । इन्द्रम् । येन । जयन्ति । न । पराऽजयन्ते । य: । त्वा । करत् । एकऽवृषम् । जनानाम् । उत । राज्ञाम् । उत्ऽतमम् । मानवानाम्॥२२.५॥

Available Bhashyas

1 Bhashyas
Meaning
१. हे राजन्! (ते) = तेरे साथ (उत्तरावन्तम्) = अतिशयित उत्कर्षवाले (इन्द्रम्) = उस प्रभु को (युनज्मि) = जोड़ता हूँ (येन) = जिस इन्द्र से प्रेरित तेरे सैनिक (जयन्ति) = शत्रुसेना को जीतते हैं, (न पराजयन्ते) = और कभी पराजय को प्राप्त नहीं होते। वस्तुतः प्रभु-स्मरण के साथ चलनेवाला राजा युद्ध में शत्रुओं से कभी पराजित नहीं होता। २. हे राजन्! (त्वा) = तुझे (यः इन्द्रः) = जो प्रभु है वे (जनानाम्) = लोगों में (एकवृषम्) = अद्वितीय शक्तिशाली (करत्) = बनाते हैं, (राज्ञाम्) = सब राजाओं में भी अनुपम शक्तिशाली करते हैं, (मानवानाम्) = सब मनुष्यों में वे प्रभु तुझे (उत्तमम्) = सर्वोत्कृष्ट स्थिति में स्थापित करते हैं।
Essence
प्रभु-स्मरण के साथ संग्राम में चलनेवाला राजा कभी पराजित नहीं होता। यह अनुपम शक्तिशाली व उत्तम बनता है।

 
Subject
प्रभु-स्मरण व अपराजय