Available Bhashyas

Bhashyas

Choose the bhashyas to show on this mantra page.

Atharvaveda - Mantra 2

Atharvaveda 4/22/2

40 Sukta
7 Mantra
4/22/2
Devata- इन्द्रः, क्षत्रियो राजा Rishi- वसिष्ठः, अथर्वा वा Chhanda- त्रिष्टुप् Suktam- अमित्रक्षयण सूक्त
Mantra with Swara
एमं भ॑ज॒ ग्रामे॒ अश्वे॑षु॒ गोषु॒ निष्टं भ॑ज॒ यो अ॒मित्रो॑ अ॒स्य। वर्ष्म॑ क्ष॒त्राणा॑म॒यम॑स्तु॒ राजेन्द्र॒ शत्रुं॑ रन्धय॒ सर्व॑म॒स्मै ॥

आ । इ॒मम् । भ॒ज॒ । ग्रामे॑ । अश्वे॑षु । गोषु॑ । नि: । तम् । भ॒ज॒ । य: । अ॒मित्र॑: । अ॒स्य । वर्ष्म॑ । क्ष॒त्राणा॑म् । अ॒यम् । अ॒स्तु॒ । राजा॑ । इन्द्र॑ । शत्रु॑म् । र॒न्ध॒य॒ । सर्व॑म् । अ॒स्मै ॥२२.२॥

Mantra without Swara
एमं भज ग्रामे अश्वेषु गोषु निष्टं भज यो अमित्रो अस्य। वर्ष्म क्षत्राणामयमस्तु राजेन्द्र शत्रुं रन्धय सर्वमस्मै ॥

आ । इमम् । भज । ग्रामे । अश्वेषु । गोषु । नि: । तम् । भज । य: । अमित्र: । अस्य । वर्ष्म । क्षत्राणाम् । अयम् । अस्तु । राजा । इन्द्र । शत्रुम् । रन्धय । सर्वम् । अस्मै ॥२२.२॥

Available Bhashyas

1 Bhashyas
Meaning
१. हे (इन्द्र) = सर्वशक्तिमान् प्रभो! (इमम्) = इस राजा को (ग्राम) = जनसमूह में (अश्वेषु गोषु) = घोड़ों में और गौओं में (आभज) = समन्तात् भागी कर। (य:) = जो (अस्य) = इस राजा का (अमित्रः) = शत्रु है (तं निर्भज) = उसे 'ग्राम, अश्व व गौओं' से पृथक्क र । २. (अयं राजा) = यह राजा (क्षत्राणाम) = क्षत से त्राण करनेवाले कार्यों में (वर्ष्म अस्तु) = शरीर के मुख्य अंग सिर के समान हो। हे (राजेन्द्र) =  परमात्मन्! आप (अस्मै) = इसके लिए (सर्व शत्रुम्) = सब शत्रुओं को (रन्धय) = वशीभूत कीजिए
Essence
हमारा राजा ग्रामों, घोड़ों व गौओं का अधिपति हो। यह क्षत्रियों में मूर्धन्य हो। सब शत्रुओं को वश में करनेवाला हो।
Subject
क्षत्रियों में मूर्धन्य